Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये ___यदि च 'यदि न स्यादिति न्यायेन कुर्यात् तदा अनधिकृतककत्वेन निष्फलं स्यात् / स्फ्याश्लेषे सतीज्याकर्त्तव्यतानिश्चयेऽपि नावाहनम्, पूर्वदिनस्याङ्गस्याभावादितीज्यायामावाहनबाध एव / ननु तथापि फ्याश्लेषरूपनिमित्तनिश्चयाभावेऽपि 'यदि न स्यात् ततः किं स्याद्' इति न्यायेन सकम्पप्रवृत्तौ बाधकाभावेन तादृशप्रवृत्त्या पूर्वदिनजनितदेवतावाहनात् फलोत्पत्तिप्रसङ्ग इत्यत आह 'यदी'त्यादि / सन्दिग्धे परलोकेऽपि त्याज्यमेवाशुभं जनैः / यदि न स्यात् ततः किं स्यादस्ति चेन्नास्तिको हतः // इति न्यायेनेत्यर्थः / 'कुर्यात्' पूर्वदिने सङ्कल्पं करोति; 'तदा' तथापि, 'अनधिकृतकर्तृकत्वेन' निष्कम्पप्रवृत्तिजनकनिमित्तनिश्चयाभाववत्कर्तृकत्वेन, 'निष्कलं स्यादिति निष्फलं भवतीत्यर्थः / निमित्तनिश्चयस्य स्वप्रयोज्यनैमित्तिकेज्याद्वारा तज्जन्यव्यापार प्रति हेतुत्ववत्तदीयवैदिकाङ्गजन्यव्यापारं प्रत्यपि स्वप्रयोज्यतदङ्गद्वारा हेतुत्वात् / न चैवमुपरागश्राद्धादावपि निमित्तीभूतोपरागादिसंशयात् कृतस्य तद्वैदिकाङ्गपूर्वदिननिरामिषभोजनस्य निष्फलत्वापत्तिरिति वाच्यम् , इष्टत्वात् / ___ यद्वा तत्रोपरागसंशयेऽपि शिष्टाचारादुत्कटकोटिकनिमित्तज्ञानमेव हेतुः, तदतिरिक्तस्थल एव निमित्तनिश्चयो हेतुरिति भावः / ननु तथाप्युत्तरदिने स्फ्याश्लेषेज्याकर्त्तव्यतानिश्चये जाते देवतावाहनकरणसम्भवात् तदपि देवतावाहनं फलजनकं स्यादित्यत आह 'स्फ्याश्लेष' इति, "निश्चयेऽपीति सतीति शेषः। 'नावाहनं' नोत्तरदिनकृतमावाहनम् , फलजनकमिति शेषः। 'अङ्गस्य' तज्जनिताङ्गापूर्वजनकस्य, 'आवाहनबाध एव' आवाहनस्य सफलत्वबाध एव। ननु पूर्वदिने देवतावाहनाकरणे स्फ्याश्लेषेज्यातः कथं फलसिद्धिः 1 अङ्गहानेन भवत्येव फलमिति चेत् , न; सकलवैदिकमीमांसकैः पूर्वदिने तदकृत्वापि तद्यागानुष्ठानात् / न चात एव न तत्र तस्याङ्गत्वमिति वाच्यम्, प्रकृतिवद्विकृतिरिति न्यायेन तदङ्गत्वस्यावश्यकत्वात् , न्यायलब्धसहकारित्वस्यापि मीमांसकैविधौ भानाभ्युपगमात् / न च नित्यवन्नैमित्तिकेऽपि किश्चिदङ्गहानावपि फलसिद्धिरिति वाच्यं, तर्हि पूर्वदिनस्याङ्गस्य बाधेऽप्युत्तरदिने देवतावाहनापत्तेः, 1. बुधैरिति ख०।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88