Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 33
________________ तत्त्वचिन्तामणौ सरहस्ये कर्त्तकसमाप्तिश्च न विघ्नस्थलीया, विघ्नस्य फलाभावोन्नेयतया विघ्नस्थलीयत्वस्य तत्र विरहात् / भवन्नये तु विघ्नस्थलीयत्वस्य न कार्यतावच्छेदकत्वसम्भवः, त्वया कर्त्त विघ्नाख्यादृष्टविशेषानभ्युपगमात् / विघ्नस्थलीयत्वञ्च विघ्नविशिष्टत्वम्, वैशिष्ट्यश्च स्वोत्तरत्वे सति स्वाश्रयशरीरकर्तकत्वं तच्च संसर्गविधया प्रविष्टम् / अतः स्वत्वस्याननुगततयाऽननुगतत्वेऽपि न क्षतिः / यत्रैकस्मिन्नेव शरीरे पूर्वाह्ने मङ्गलं विनापि प्रारब्धकर्मसमाप्तिः, मध्याह्नोत्पन्नविघ्नेन प्रतिबन्धाचापराहे न प्रारब्धकर्मसमाप्तिस्तत्र भाविविघ्नवच्छरीरकत्र्तकपूर्वाह्नजातसमाप्तौ व्यभिचारवारणाय सत्यन्तम्। वस्तुतस्तु तत्रापराह्ने प्रारब्धकर्मसमाप्त्यभावस्य लोकावगतकारणाभावादेव सुवचतया तस्य विघ्नप्रयुक्तत्वे मानाभावात् सत्यन्तमनुपादेयमेव / न चैवं मङ्गलस्यापि कि समाप्तिहेतुत्वेन ? मङ्गलविरहस्थलेऽपि लोकावगतकारणाभावादेव समाप्त्यभावस्य सुवचत्वादिति वाच्यं शिष्टाचारतः कल्पितविध्यन्यथानुपपत्त्या एव मङ्गलस्य हेतुत्वकल्पनात् / तथा च विघ्नवच्छरीकत कत्वमेव विघ्नस्थलीयत्वं , न तु स्वत्वघटितमिति भावः। ___केचित्तु-विघ्नध्वंसजन्यत्वं विघ्नस्थलीयत्वं, नास्तिकादिकर्तृ कसमाप्तिश्च न विघ्नध्वंसजन्या, तत्त्वस्य फलबलकल्प्यत्वादित्याहुः, तदसत् ; प्रतिबन्धकीभूतविघ्नाभावस्य यदि विघ्नसामान्यात्यन्ताभावत्वेन हेतुत्वं तदा समाप्तेर्विघ्नध्वंसजन्यत्वस्यैवासिद्धेः। अथ विघ्नसंसर्गाभावत्वेन तथा, तदा नास्तिककर्तृकसमाप्तरपि जन्मान्तरोत्पन्नविघ्नध्वंसजन्यतया व्यभिचारतादवस्थ्यादिति ध्येयम् / 'न चैवमिति' / एवम्-ध्वंसस्यापि व्यापारत्वे / 'कल्प्येति' / दर्शजन्यपरमापूर्व प्रति कारणत्वेन कल्पनीयो यो दुरितध्वंसस्तमपेक्ष्येत्यर्थः / तस्य कारणत्वेन क्लप्तत्वे तदेव विनिगमकं स्यादिति हृदयम् / 'लघुत्वादिति' लघुशरीरत्वादित्यर्थः / प्रकृते चापूर्वस्य द्वारत्वासम्भवादनायत्या गुरुरपि व्यापारः स्वीक्रियत इति भावः / इदमुपलक्षणम् / प्रयाजादिस्थले विघ्नध्वंसस्य व्यापारत्वे स्वतः सिद्धविघ्नाभावस्थले प्रयाजादिकं विनापि कर्मसाङ्गतापत्तेः, प्रकृते च नेहशी क्षतिरित्यपि बोध्यम् / 1. विघ्नस्थलीयत्वस्य कार्यतावच्छेदकत्वासम्भवेन विघ्नस्थलीयसमाप्तौ विघ्नध्वंसद्वारा मङ्ग लस्य कारणत्वानुपपत्तिरूपा क्षतिः न, विघ्नविशिष्टसमाप्तित्वस्य कार्यतावच्छेदकत्वात्। 2. तस्य-अपराले प्रारब्धकर्मसमाप्त्यभावस्येत्यर्थः / 3. तस्य-दुरितध्वंसस्येत्यर्थः / 4. तदेव-कारणत्वेन क्लृप्तत्वमेवेत्यर्थः / 5. विनिगमकम्-अपूर्वापेक्षया दुरितध्वंसस्य द्वारत्वे युक्तिरित्यर्थः / 6. प्रकृते–मङ्गलेन समाप्तिजनन इत्यर्थः /

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88