Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ 23 प्रत्यक्षखण्डे मङ्गलवादः वस्तुतस्तु प्रायशो विघ्नसंशये तनिश्चये वा नियमेन शिष्टानां मङ्गलाचरणे विनाभाव एव द्वारत्वेनाभिमतः / निर्विघ्नं समाप्यतामिति कामनया तत्करणपक्षे श्रुतित एव द्वारत्वनिर्णयः। - किश्चापूर्वद्वारत्वे लौकिकाङ्गत्वविरोधः, क्लप्तकारणादेव तदुत्पत्तेरिन्द्रबाहुबन्धनवत्। ननु विघ्नसन्देहे कथं तन्नाशार्थं प्रवृत्तिः ? दुरितध्वंसार्थिप्रवृत्ती तनिश्चयस्य हेतुत्वात् प्रायश्चित्तवदिति चेत्, न; विनसंशये निश्चये वा ननु मयाऽप्यनायत्या मङ्गलकर्तुविनोऽभ्युपेयः / तथा च तत्स्थलीयसमाप्तावेव फलीभूतसमाप्तिकर्तृ शरीरनिष्ठतयां मङ्गलजन्यमपूर्व कारणमतो नोक्तव्यभिचार इत्यस्वरसादाह 'वस्तुतस्त्विति' / 'अभिमतः' अनुमितः, 'आकाङ्क्षितः' इति पाठेऽप्ययमेवार्थः। अनुमानश्च 'मङ्गलं विघ्नध्वंसजनकं विनाजनकत्वे सति विघ्नज्ञानवतामेव भ्रमाजन्यतत्प्रवृत्तिविषयत्वाद' इत्याकारकम्। समाप्त्युद्देश्यकप्रवृत्त्यनुपपत्त्या विनाजनकत्वस्य सिद्धत्वात् / सिद्धे विघ्नध्वंसे फले समाप्त्युद्देश्यकप्रवृत्त्यनुपपत्त्यैव तस्य मुख्यफलत्वे निरस्ते परिशेषाद् द्वारत्वनिर्णय इति भावः / 'इति कामनया' इत्युद्दिश्य, 'तत्करणपक्षे' तस्य शिष्टाचारविषयत्वपक्षे, 'श्रुतित' इति निर्विनसमाप्तिकामो मङ्गलमाचरेदिति तादृशाचारानुमितविन्नध्वंसविशिष्टसमाप्तिजनकताबोधकवेदादेवेत्यर्थः / न च तज्जन्यत्वे सति तजन्यजनकत्वस्य द्वारत्वस्य न वेदादुपस्थितिः, निर्विघ्न- . पदस्य जन्यतासम्बन्धेन विघ्नध्वंसविशिष्टार्थकतया समाप्तौ विघ्नध्वंसजन्यत्वस्य मङ्गले तद्विशिष्टसमाप्तिजनकत्वस्यैव च, तस्मात् प्रतीतेरिति वाच्यं, विशिष्टनिरूपितकारणताग्राहकमानेन विशेषणं प्रत्यपि कारणताग्रहनियमाद् , विघ्नध्वंसं प्रत्यपि मङ्गलस्य तेन कारणताग्रहादिति भावः। ननु नियमतो विघ्नज्ञानसत्त्व एव शिष्टस्तत्करणं निर्विघ्नं समाप्यतामिति कामनया शिष्टैस्तत्करणञ्चासिद्धमित्यरुचेराह 'किञ्चेति' / 'अपूर्वद्वारत्वे' अपूर्वद्वारा फलजनकत्वे, 'लौकिकाङ्गत्वविरोधः' लौकिकफलजनकत्वाभावप्रसङ्गः; क्लुप्तकारणादेव' अपूर्वद्वारकफलजनककारणातिरिक्तकारणादेव, 'तदुत्पत्ते.' तदुत्पत्तिनियमात् , लौकिकफलो. त्पत्तिनियमादिति यावत् / 'अलौकिकं लौकिके नाङ्गम्' इति तक्षसूत्रस्यापूर्वद्वारा स्वफलजनककर्मविषयत्वादिति भावः / 'इन्द्रबाहुबन्धनवदिति' / तादृशनियमादिन्द्रबाहु 1. तस्मात्-वेदादित्यर्थः /

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88