Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः 25 नन्वेवं विधिनापि विघ्नज्ञानवमात्रकर्त्तव्यत्वेन 'बोध्येते'त्यत्रेष्टापत्तिमाह 'ताहशाचारे'ति विघ्नस्य संशये निश्चये च शिष्टाचारेत्यर्थः / अनुमानश्च 'मङ्गलं विघ्नज्ञानवन्मात्रकर्तव्यत्वेन' वेदबोधितं विघ्नस्य संशये निश्चये च शिष्टाचरणाद्'२ इत्याकारकमिति भावः। 'अधिकारी', 'बोध्यते' कर्तृत्वेन बोध्यते, तत्कर्त्तव्यत्वेन मङ्गलं बोध्यत इति यावत् / 'विघ्नज्ञानवान् समाप्तिकामो मङ्गलं कुर्याद्' इत्येवानुमितवेदशरीरमिति भावः / 'प्रायश्चिते तु'प्रायश्चित्तविशेषे तु, तनिश्चयवानि' ति पापनिश्चयवानित्यर्थः। कर्तेति शेषः। तथा च विधिना यत्र पापनिश्चयमात्रवत्कर्तव्यत्वं बोध्यते तत्रैव पापनिश्चयो हेतुः, अन्यत्र पापज्ञानसामान्यमेवेति भावः / 'अत एवे' ति 'इत्यपास्तम्' इत्यनेनान्वितम् , 'अधिकारिविशेषणमिति अधिकार इत्यर्थः / यत् प्रवर्तमानपुरुषनिष्ठतया ज्ञायमानं सत् प्रवृत्तिहेतुः सोऽधिकारः, यथा शौचतत्कालजीवित्वादिः / शौचभ्रमाद्यत्र प्रवृत्तिस्तत्रापि भ्रमविषयीभूतं व्यधिकरणशौचमेव प्रवृत्तिहेतुरिति भावः / विनस्य मङ्गलेऽधिकारत्वमेव नास्तीत्याह 'यतः' इति, प्रधानाधिकारिण एव' प्रधानाधिकारस्यैवेति यावत् / 'अङ्गेऽधिकारः' तदीयवैदिकाङ्गेऽधिकारत्वं, तदीयवैदिकाङ्गत्वश्च तज्जन्यफलजनकत्वप्रकारेण वेदबोधितत्वं, भवति च प्रयाजादिस्तथा / अङ्गविधयो हि तावत् प्रधानसहकार्याकाङ्क्षायां प्रवर्तन्ते, न तु फलजनकत्वमात्राकाङ्क्षायां, प्रधानविधितः प्रधानज्ञानादेव तदुच्छेदात् ; तथा च यदाकाङ्क्षया यत्प्रवर्तते स तस्याथै इति सकलमीमांसकमतसिद्धतया दर्शादिसहकारित्वस्याप्यङ्गविध्यर्थत्वात् / न च 'विधौ न परः शब्दार्थः' इति न्यायादङ्गविधेरपीष्टसाधनत्वमेवार्थ इति वाच्यं, शाब्दबोधस्याकाङ्कानुरोधितया 'न विधौ' इत्यस्य प्रधानविधिपरत्वात् , तथैव मीमांसकैरभ्युपगमादिति भावः / 'न स्वतन्त्रः' न तदधिकारातिरिक्तः, तदीयवैदिकाङ्गेऽधिकारः, 'अङ्गत्वभङ्गप्रसङ्गादिति वैदिकाङ्गत्वभङ्गप्रसङ्गादित्यर्थः / तदधिकारातिरिक्तानधिकारकत्वस्य निरुक्ततदीयवैदिकाङ्गत्वव्यापकत्वादिति भावः। यद्यपि प्रारब्धकर्मण्यनधिकारस्यापि शौचादेमङ्गलेऽधिकारत्वान्नायं नियमः, तथापि तदतिरिक्ताधिकारेऽयं नियमो बोध्यः / नन्वतावता प्रकृतेऽपि किमायातमित्यत आह 'न चेति / 'प्रधाने' स्वजन्यफलजनकत्वेन वेदबोधितमङ्गलके, स्वपदं प्रारिप्सितकर्मपरम् , 'अधिकारिविशेषणम्' अधिकारः, 'विरोधादिति अधिकारत्वफलप्रतिबन्धकत्वयोर्विरोधस्य सर्वसिद्धत्वादित्यर्थः / तथा च तदीयवैदिकाङ्गे मङ्गले कुतो विघ्नस्याधिकारत्वमिति भावः / 1. विघ्नज्ञानमात्रवत्कर्त्तव्यत्वेनेति क०, ग० च / 2. विघ्नसंशयनिश्चयकालीनालौकिकशिष्टाचारविषयत्वादिति : विघ्नसंशयनिश्चयकालीन शिष्टाचारविषयत्वादिति ग०। 3. व्यापकाभावेन व्याप्याभावसिद्धिरित्याशयः /

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88