Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः ापारः, किन्तु प्रतिबन्धकीभतपापनाश एव तस्य व्यापार इत्यर्थः। तथा च यत्र यत्र लौकिकं फलं श्रूयते, तत्रैव तत्प्रतिबन्धकपापनाशो व्यापार इति भावः / . ननु विन्नाभावस्य कुतो मङ्गलव्यापारत्वमत्यन्ताभावरूपस्य तस्य नित्यत्वादित्यत आह 'विघ्नध्वंसेति' / 'अङ्ग' समाप्तिकारणम् / मङ्गलस्यापूर्वविशेष एव समाप्तिजनने व्यापारः, न तु विनध्वंसः, विनध्वंसत्वमपेक्ष्यापूर्वविशेषत्वस्य लघुत्वात् / विनध्वंसस्य व्यापारत्वे विघ्नानुरोधेन मङ्गलक स्तज्जनककर्मकल्पनापत्तेः, अपूर्वविशेषस्य व्यापारत्वे मङ्गलकत्तर्विघ्नसत्त्वे मानाभावेन तज्जनककर्मणोऽप्यकल्पनादिति केचिन्मीमांसका वदन्ति, तन्मतं दूषयति 'न विति। न तु मङ्गलमलौकिकं लौकिके नाङ्गमिति पूर्वपक्षिणामपूर्वद्वारकत्वाशङ्कायामेतग्रन्थावतारः, 'अपूर्वद्वारकत्वे लौकिकाङ्गत्वविरोधः' इत्यग्रिमदूषणासङ्गतेः। तेन लौकिकानङ्गत्वस्यैवाभ्युपगमात् / 'इडः' इति द्वितीयाबहुवचनम् , इडादयो देवताभेदाः। 'मङ्गलजन्यादृष्टं विनापीति। __ यद्यपि जन्मान्तरीयमङ्गलजन्यादृष्टस्यैव सुवचत्वात् कुतोऽस्य दोषः ? तथापि जन्मान्तरकृतमङ्गलस्यादृष्टद्वारा जन्मान्तरीयसमाप्त्युपधायकत्वे जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तिप्रसङ्ग इति वक्ष्यमाणदोषापत्तिः / अतो जन्मान्तरीयमङ्गलस्य जन्मान्तरीयसमाप्त्युपधायकतावारणाय स्वोत्पत्त्यवच्छेदकता. सम्बन्धेन समाप्तिकर्त्त शरीरनिष्ठतयैव मङ्गलजन्यादृष्टस्य समाप्तिहेतुत्वं वाच्यं; स्वोत्पत्त्यवच्छेदकत्वश्च स्वोत्पत्तिसमानाधिकरणं स्वावच्छेदकत्वमित्यभिप्रायेणायं दोषः, जन्मान्तरीयमङ्गलजन्यादृष्टस्य नास्तिकशरीरे स्वोत्पत्त्यवच्छेदकतासम्बन्धेनाभावात् / एवञ्च 'मङ्गलजन्याहष्टं विनाऽपि' मङ्गलजन्यादृष्टस्य स्वोत्पत्त्यवच्छेदकतासम्बन्धेनाभावेऽपि, 'स्वतः सिद्धविघ्नविरहवतः' स्वावच्छेदेन मङ्गलानुष्ठानं विनापि सिद्धविघ्नाभावकस्य नास्तिकशरीरस्य, 'स्व' नास्तिकशरीरम् , 'आरब्धनिर्वाहात् आरब्धकर्मसमाप्तेरिति ग्रन्थार्थः / इदमुपलक्षणं , युवादिशरीरे मङ्गलानुष्ठानाद् वृद्धादिशरीरे यत्र समाप्तिस्तत्रापि व्यभिचारो बोध्यः / 'दुरितध्वंसद्वारापीति' विघ्नध्वंसद्वारापि, 'इदम्' मङ्गलम्, 'नाङ्गम्' न समाप्तिजनकमित्यर्थः / 'तथैव' स्वतःसिद्धविघ्नविरहवतो नास्तिकशरोरस्य समाप्तावेव, 'व्यभिचारात' स्वोत्पत्त्यवच्छेदकतासम्बन्धेन विघ्नध्वंसस्य व्यभिचाराद् ; उक्तातिप्रसङ्गवारणाय त्वयापि स्वोत्पत्त्यवच्छेदकतासम्बन्धेन फलीभूतसमाप्तिकत शरीरनिष्ठतयैव मङ्गलजन्यविघ्नध्वंसस्य समाप्तिहेतुताया वाच्यत्वादिति भावः। 'सति विघ्ने' इति / विघ्नस्थलीयसमाप्तावित्यर्थः। तस्य' मङ्गलस्य, 'अङ्गत्वात्' विघ्नध्वंसद्वाराङ्गत्वात् / प्रमत्तादिशरीर 2. 'न तु' इत्यस्य अग्रिमेण 'एतद्ग्रन्थावतारः' इत्यनेनान्वयः।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88