Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 30
________________ प्रत्यक्षखण्डे मङ्गलवादः तस्यापूर्वरूपोपकारजनकाङ्गविषयत्वात् / अयन्तु प्रतिबन्धकामावरूप उपकारः, तस्य च लोकावगतकारणसहकारितैव, प्रतिबन्धके सति घटादिजनकत्वम् , मानाभावात् / नापि यागादेः स्वर्गादिजनकशरीरतच्चन्दनसंयोगादिजनकत्वं, तेन न तेषु व्यभिचारः। न च तथापि वृष्टिपुत्रादिरूपलौकिकफलजनके कारीरीपुत्रेष्ट्यादौ, रोगनाशादिरूपलौकिकफलजनके भेषजपानाभिमन्त्रणादौ च व्यभिचार इति वाच्यं , व्यापारीभूतावग्रहनिवृत्त्यादेरलौकिकस्यैव तेषां फलत्वात् , न तु वृष्ट्यादेः / 'वृष्टिकामो यजेत' इत्यादौ च वृष्ट्यादिप्रयोजकत्वस्यैव विध्यर्थत्वात् / एवं यत्र यत्र लौकिकं फलं श्रूयते तत्रैव प्रयोजकत्वं विध्यर्थः, तज्जनकव्यापार एव फलमिति न कापि व्यभिचारः। फलत्वं तु स्वकर्त्तव्यताप्रयोजकेच्छाविषयत्वमिति भावः / केचित्त 'तच्चेदमारब्धकर्माङ्ग मिति पूर्वोक्तानुमाने बाधकमाशङ्कते 'ननु मङ्गलमिति' / 'मङ्गलं' यतः 'अलौकिकम्', अतो लौकिकफलजनकं न भवतीत्यर्थः / तथा चालौकिकत्वेन हेतुना लौकिकफलजनकत्वाभावसिद्धौ तेनैव हेतुनाऽऽरब्धकर्माङ्गत्वाभावसिद्धेः पूर्वोक्तानुमाने बाध इत्याहुः, तदसत् ; समानबलतया तत्प्रतिपक्षत्वेन बाधासम्भवात् / न च वक्ष्यमाणगृहरथाद्यधिकरणविरोधप्रसङ्गलक्षणानुकूलतर्कणास्याधिकबलवत्त्वमिति वाच्यं, तावता लौकिकफलजनकत्वाभावसाधकहेतावधिकबलवत्त्वेऽप्यारब्धकर्माङ्गत्वाभावसाधकहेतावधिकबलवत्त्वाभावात् / नन्वेवं कुतः समाप्तिरित्यत आह 'लोकेति' / ननु तत्सूत्रमप्रयोजकमित्यत आह 'अत एवेति' / अलौकिकस्य लौकिकफलाजनकत्वादेवेत्यर्थः। 'आरः'लौहकीलः, गृहरथादिचक्रमित्यन्ये / 'इन्द्रबाहुः' लौहकाकः, 'तदुभयमिति' लौहकाकबन्धनब्राह्मणभोजने इत्यर्थः। 'नैमित्तिकमिति' अपूर्वद्वारा आरभङ्गनिमित्तकपापनाशजनकमित्यर्थः। तच्च पापमनिष्टान्तरजनकम् / न च तस्य पापनाशफलत्वे प्रायश्चित्तवत् साक्षादेव तत्सम्भवेनापूर्वद्वारत्वाभ्युपगमो व्यर्थ इति वाच्यं , क्रियाविशेषरूपस्य बन्धनादेराशुविनाशितया दक्षिणादानाद्युत्तराङ्गपर्यन्तमवस्थानासम्भवेनापूर्वस्य व्यापारत्वावश्यकत्वात् / अत एव प्रायश्चित्तस्थलेऽपि पापनाशार्थमपूर्वमावश्यकमिति भावः। - नन्वेवं प्रकृतानुपयोगित्वे आरम्भसमये नियमतः शिष्टैर्नानुष्ठीयेतेत्यत आह 'तद्वदिति'। इन्द्रबाहुबन्धनादिकं यथा आरभङ्गोत्तरकालसहकारेणैव स्वर्गफलजनकव्यापारजनकं, तथा मङ्गलमपि आरम्भसमयसहकारेणैव स्वर्गफलजनकव्यापारजनकमित्यर्थः / 'आरम्भसमयः' कर्त्तव्यकर्मचिकीर्षासमयः / ननु मङ्गलस्य समाप्त्यजनकत्वे तस्य किं फलं ? को वा व्यापार ? इत्यत आह 'विश्वजिदिति' / अपूर्वञ्च व्यापारः, अन्यथानुपपत्त्या तथैव कल्पनादिति भावः / 'तस्येति' / “अलौकिक लौकिके नाङ्गम्" इति तक्षसूत्रस्येत्यर्थः / 'अपूर्वरूपेति'। 'उपकारः'

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88