Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 29
________________ तत्त्वचिन्तामणौ सरहस्ये आचारमूलकश्रुत्यनुमानाभ्यां तदर्थितया तत्कर्त्तव्यत्वबोधनात् तत्कलकत्वबोधनाच / दर्शारम्भसमये नियमेन क्रियमाणाया अप्यारम्भणीयायास्तदर्थितया अक्रियमाणत्वात् फलान्तरश्रवणाच प्रधानत्वमिति न तया व्यभिचारः / ननु मङ्गलमलौकिकं लौकिके नाङ्गं भवति, लोकावगतकारणत एव तदुपपत्तेः / अत एव गृहरथादावारे भग्ने इन्द्रबाहुर्बद्धव्यः, पायसं ब्राह्मणो भोजयितव्य इत्यत्र तदुभयं नाङ्गं किन्तु नैमित्तिकं; तद्वदिदमप्यारम्भसमयनिमित्तकमस्तु विश्वजिन्न्यायात् स्वर्गफलमिति चेत्, न ; प्रथमहेतौ 'कर्माथितयेति विशेषणस्य 'फलान्तराभावे सती'ति विशेषणस्य चासिद्धिं परिहरति 'आचारमूलकश्रुत्यनुमानाभ्यामिति / एतद्वयं यथासङ्खथेन 'तथितया तत्कर्तव्यत्वबोधने', 'तत्फलकत्वबोधने चान्वितम् / 'आचारमूलकत्वम्' समाप्त्यु. द्देश्यकाविगीतशिष्टाचारानुमितत्वम् / 'तथितया' तत्कर्मजन्यफलार्थितया | यद्यपि वेदोऽपि विवक्षितफलार्थिकर्त्तव्यत्वं न बोधयति, तथापि समाप्तिसाधनतायां बोधितायामर्थात् तत्सिद्धिरिति भावः / 'तत्फलकत्वबोधनात्' तत्फलमात्रफलकत्वबोधनात् , तत्फलान्याफलकत्वबोधनादिति यावत् / यथाश्रुते फलान्तराभावस्यैव हेतुघटकतया तत्फलकत्वबोधनस्यानुपयुक्तत्वापत्तेः / तत्फलान्याफलकत्वानुमानश्च 'मङ्गलं नारब्धकर्माजन्यफलजनकं समाप्त्युद्देश्यकशिष्टाचारविषयत्वाद् आरब्धकमेवद्' इत्याकारकम् / फलत्वञ्च निरुक्तमेव / उभयहेतौ प्रथमविशेषणप्रयोजन माह 'दर्शेति' / 'दर्शारम्भसमये' दर्शारम्भपूर्वसमये, 'आरम्भणीयायाः' यागस्य, 'आग्नेयाष्टाकपालं चरं निर्वपेद्, दर्शपौर्णमासावारिप्समानः' इति श्रुतिवचनेन दर्शपौर्णमासपूर्वकाले क्रियमाणत्वं ; न तु तदर्थितया'; न वा फलान्तराभाव इति भावः / मङ्गलस्य समाप्तिजनकत्वे 'अलौकिकं लौकिके नाङ्गम्' इति तक्षसूत्रं बाधकमाशङ्कते 'नन्विति' / 'अलौकिकं मङ्गलं लौकिकेऽङ्ग न भवति' इति योजना; भवतिसम्भवति; 'अलौकिक लौकिके नाङ्ग भवति' इति तक्षसूत्रविरोधापत्तेः / तत्सूत्रेणालौकिकत्वस्य लौकिकानङ्गत्वव्याप्यत्वबोधनात् / अलौकिकत्वञ्च वेदबोधितेष्टसाधनताककर्मत्वं; लौकिकानङ्गत्वश्च न लौकिककर्मजन्यफलाजनकत्वं, यागादेरपि शरीरात्मादिसहकारेण चन्दनसंयोगादिसहकारेण च स्वर्गादिफलजनकतया तत्रैव व्यभिचारापत्तेः, किन्तु लौकिकफलाजनकत्वम् ; फलनिष्ठलौकिकत्वञ्च मानसेतरलौकिकसाक्षात्कारविषयत्वं , समाप्तिश्च तथा। घटादिजनकादृष्टजनककर्मणश्च न 1. 2. तज्जन्यफलाथितयेति ग० / भ्यामिति क०। 3. दर्शपूर्वसमये इति ख०, ग० च /

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88