Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 27
________________ तत्त्वचिन्तामणौ सरहस्ये वर्णान्तरं चरमवर्णध्वंसो वा समाप्तिः / न चैवं समाप्तेरारब्धकर्मजन्यत्वमनुपपन्न, चरमवर्णस्यासमवायिकारणतया प्रतियोगितया२ वा यथोक्तसमाप्तिफलकत्वेऽपि तत्पूर्वपूर्ववर्णानां तत्राजनकत्वादिति वाच्यम् , पूर्वपूर्ववर्णाजन्यत्वेऽपि चरमवर्णजन्यतयैव ग्रन्थत्वाश्रयजन्यतानिर्वाहाद् ग्रन्थत्वपर्याप्त्यधिकरणजन्यत्वस्य प्रकृतेऽविवक्षितत्वात् / घटादिस्थले च तत्सामग्रीसम्पादनमेवारब्धं कर्म, घटादिरेव समाप्तिः। __केचित्त ग्रन्थादिस्थलेऽपि कण्ठताल्वाद्यभिघातदृष्टप्रतिबन्धकाभावादिरेव पुरुषप्रयत्नसाध्यतया आरब्धं कर्म, चरमवर्णपर्यन्तवर्णसमूहरूपग्रन्थादिरेव समाप्तिः। ____ अन्ये तु चरमवर्णपर्यन्तवर्णसमूहरूपो ग्रन्थ एवारब्धं कर्म, चरमवर्णाशे लौकिकप्रत्यक्षात्मकमानुपूर्वो विशेषविशिष्टतावद्वर्णविषयकसमूहालम्बनानुसन्धान समाप्तिः, तस्य च विषयविधया चरमवर्गजन्यत्वेन ग्रन्थत्वाश्रयजन्यत्वमित्याहुः / .. 'कर्माथितये'ति आरब्धकर्मजन्यफलेच्छयेत्यर्थः, न त्वारब्धकर्मनिष्पत्तीच्छयेत्यर्थः / 'दर्श प्रयाजादिवद्' इति दृष्टान्तासङ्गतेः, प्रयाजस्य दर्शानिष्पादकत्वात् / 'शिष्टः' अभ्रान्तैः, 'तत्पूर्वम्' आरब्धकर्मपूर्व; तथा च तद्विषयककृतिपूर्वकालीनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयत्वादिति हेतुः। यत् तद्विषयककृतिपूर्वकालोनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयो भवति, तत् तदनं भवतीति सामान्यतो व्याप्तिः। दर्शप्राक्क्रियमाणायामारम्भणीयायां समिदाहरणादौ च व्यभिचारवारणाय तत्फलेच्छाजन्येति, तत्र तत्फलार्थितयाऽप्रवृत्तेः / दर्शादिफलसाधनताभ्रमेण तत्प्राक् कृते तदनने व्यभिचारवारणाय भ्रमाजन्येति / प्रधानस्यापि प्रधानफलेच्छया क्रियमा. णत्वमिति तत्र व्यभिचारवारणाय कालीनान्तम् / न चैवमैन्द्रदधिपयोयागत्रितयात्मकस्य' दर्शस्य पूर्वप्रतीके व्यभिचारः। 'यत् फलजनकतावच्छेदकपर्याप्त्यधिकरणयविषयककृतिपूर्वकालीनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयो भवति, तत् तदनं भवतीति विवक्षितत्वात् / ऐन्द्रादिप्रत्येक१. ननु यत्र चरमवर्णनाशानन्तरमेव तत्सजातीयवर्णान्तरोत्पत्तिस्तत्र न चरमवर्णस्या समवायिकारणत्वमत आह 'चरमेति' / 2. चरमवर्णसजातीयवर्णान्तरस्य समाप्तित्वे असमवायिकारणतया, चरमवर्णध्वंसस्य समा प्तित्वे च प्रतियोगितया समाप्तिजनकत्वमिति भावः / 3. समाप्तिजनकत्वेऽपीति ग०। 4. अनुसन्धानं हि स्मरणात्मकज्ञानलक्षणसन्निकर्षजन्यं ज्ञानम् / 5. ऐन्द्रयागः, दधियागः, पयोयागश्चेति यागत्रयरूपस्येत्यर्थः।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88