Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये तच्चेदमारब्धकर्माङ्ग कर्मार्थितया शिष्टैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवकर्मारिप्समानेन नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्श प्रयाजादिवत् / ___ यद्यपि मङ्गलस्यारब्धकर्मभिन्नस्यैतावता प्रबन्धेन वस्तुगत्याऽऽरब्धकर्मजन्या या समाप्तिस्तजनकत्वं सिद्धं', तथाप्यारब्धकर्माङ्गत्वत्वरूपेणारब्धकर्माङ्गत्वं न सिद्धम्'; अतः प्रसङ्गात्तदपि साधयति 'तच्चेदमि'ति / 'आरब्धकर्माङ्गम्' आरब्धकर्मभिन्नत्वे सति आरब्धकर्मजन्यफलजनकम् / न चैवं तद्भिन्नत्वे सति तज्जन्यफलजनकत्वस्य तदङ्गत्वरूपत्वे आरब्धकर्मणोऽपि मङ्गलाङ्गत्वापत्तिः, दर्शस्य प्रयाजाद्यङ्गत्वापत्तिश्चेति वाच्यं, सहकारित्वरूपस्याङ्गत्वस्य तत्रेष्टत्वात् / मुख्यफलाजनकत्वे सति मुख्यफलजनकव्यापारजनकत्वरूपं लौकिकाङ्गव्यावृत्तपारिभाषिकाङ्गत्वमेव हि न दर्शादौ, किन्तु प्रयाजादावेव, प्रयाजादेरङ्गापूर्वद्वारा परमापूर्वमानं प्रत्येव जनकत्वेन स्वर्ग प्रत्यजनकत्वात् / परमापूर्व साधनताज्ञानात् स्वर्गप्रयोजकताज्ञानाद् वा तत्र प्रवृत्तेः। अङ्गप्रधानव्यवस्थान्यथानुपपत्त्या तथैव कल्पनात् / तदुक्तं'यागे रागादङ्ग वैधी' इति / 'रागात्' मुख्यफलेच्छातः प्रवृत्तिरिति शेषः। 'वैधी'ति / विधिः-अपूर्व, तदिच्छा, प्रवर्तिकेति शेषः / ___ अथैवं 'फलवत्सन्निधावफलं तदङ्गम्' इति जैमिनिसूत्रस्य का गतिरिति चेत् ? तत्रारम्भणीयादावतिव्याप्तिवारणाय सप्तम्यन्तम् , फलवान् यः सन्निधिस्तदीयमुख्यफलजनको यो व्यापारस्तत्रेति तदर्थः। जनकत्वं सप्तम्यर्थः, अन्वयश्वास्याफलमित्यनेन / अफलत्वश्च तदीयमुख्यफलाजनकत्वम् , एतच्च स्वस्य स्वाङ्गत्ववारणाय दर्शादेः प्रयाजायङ्गत्ववारणाय च। तदोयमुख्यफलजनकजनकत्वे सति तदीयमुख्यफलाजनकत्वं तदङ्गत्वमित्येव फलितम् / न च प्रायश्चित्तादेर्दक्षिणादानादिचरमाङ्गेऽव्याप्तिस्तस्य साक्षादेव पापनाशरूपमुख्यफलजनकत्वादिति वाच्यम् ; अङ्गत्वान्यथानुपपत्त्या तत्राप्यङ्गापूर्वाद्युपगमात् / न चाङ्गाङ्गेऽतिव्याप्तिः, तस्याप्यङ्गत्वस्येष्टत्वाद् ; अङ्गाङ्गस्याङ्गाङ्गापूर्वजनकतयैवान्यथासिद्धतयाऽङ्गापूर्वजनकत्वे मानाभावाच्च / मुख्यफलत्वश्च वैधफलत्वम् / न च 1. मङ्गले आरब्धकर्मभिन्नत्वमेतावता प्रबन्धेन वस्तुगत्या आरब्धकर्मजन्या या समाप्ति___ स्तज्जनकत्वञ्च सिद्धमिति ख०, ग० च / 2. आरब्धकर्माङ्गत्वं विशिष्टं न सिद्धमिति ख० ग० च / 3. रागो मुख्यफलेच्छा. तत इति क० / 4. जैमिनेरङ्गलक्षणसूत्रस्येति ख०, ग० च /

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88