Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः यागस्तु न फलजनकतावच्छेदकदर्शत्वपर्याप्त्यधिकरणं तस्य त्रितयनिष्ठत्वादिति न व्यभिचारः / फलत्वञ्च स्वकर्त्तव्यताप्रयोजकेच्छाविषयत्वमिति / हेत्वन्तरमाह 'फलान्तराभावे सतीति'। दर्शप्राकक्रियमाणारम्भणीयायां व्यभिचारवारणाय सत्यन्तं, तदजन्यफलजनकान्यत्वे सतीति तदर्थः। न चेदमप्रसिद्धं, नमस्कारादेरपि फलान्तरस्य स्वध्वंसविघ्नध्वंसादेर्जनकत्वादिति वाच्यम् , फलपदस्य स्वकर्त्तव्यताप्रयोजकेच्छाविषयपरत्वात् / अत एव नमस्कारस्यानुषङ्गिकफलान्तरसत्त्वेऽपि नासिद्धिः / नियमतश्चैत्यवन्दनादिनिष्फलप्राक्क्रियमाणे केशोल्लुश्चनादौ न तदङ्गत्वमिति तत्र व्यभिचारवारणाय तत्पूर्वमित्यत्र तत्पदार्थस्य फलवत्त्वविशेषणलाभार्थ 'फलवकर्मारिप्समानेनेति' फलवकर्मेच्छावतेत्यर्थकं ; तथा च तदजन्यफलाजनकत्वे सति नियमतः फलवत्तत्पूर्व क्रियमाणत्वादिति समुदितार्थः। फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् , अन्यथा चैत्यवन्दनादेरपि ध्वंसादिलक्षणफलसत्त्वेन व्यभिचारतादवस्थ्यात् / प्रधानत्वाभिमतपूर्व कदाचित् क्रियमाणे निष्फले कर्मणि अनेकान्तवारणाय 'नियमतः' इति / प्रधानकर्मणि व्यभिचारवारणाय 'तत्पूर्वमि'ति / ननु नियमतो यत्किञ्चित्प्रधानव्यक्तिप्राक्कृते प्रतारकशिक्षितेऽनङ्गभूते निष्फले व्यभिचारः। न च तद्व्यक्तिवृत्तिफलजनकतावच्छेदकाश्रयफलोपहितसकलकर्मव्यक्तिप्राक्रियमाणत्वं विवक्षितम् , प्रयाजं विनापि केनचिद् भ्रान्त्यादिना दर्शानुष्ठानाद् दृष्टान्तासिद्धिवारणाय फलोपहितेति कर्मविशेषणमिति वाच्यं ; तथा सति सत्यन्तवैयाद् आरम्भणीयामकृत्वापि कस्यचिद् दर्शकरणसम्भवेन तत्रोक्तहेतोरभावात् , कस्यापि मङ्गलस्य न तादृशसकलव्यक्तिप्राकक्रियमाणत्वमित्यसिद्धेश्च / अत्राहुः 'नियमतः' इत्यस्य भ्रमं विनेत्यर्थः। अन्वयश्चास्य कृधात्वर्थकृतौ / न चैवं 'फलवकर्मारिप्समानेनेति व्यर्थ केशोल्लुचनादेर्धमजन्यकृतिविषयत्वादिति वाच्यम् , फलजनकतावच्छेदकपर्याप्त्यधिकरणतव्यक्तिपूर्वत्वलाभार्थं तदुपादानाद्, अन्यथा ऐन्द्राद्येकदेशे व्यभिचारापत्तेः। फलत्वश्च पूर्ववत् / न च तथाप्यङ्गाङ्गे व्यभिचार इति वाच्यम् , अङ्गापूर्वस्यैव तत्फलत्वेन फलान्तराभाववत्त्वस्यैव तत्राभावादिति सङ्केपः। 1. आदिपदेन प्रत्यक्षपरिग्रहः / ध्वंसं प्रति प्रतियोगिनः प्रत्यक्ष प्रति विषयस्य च कारणतया ध्वंसादेश्चैत्यवन्दनादिफलत्वमित्याशयः / व्यभिचारवारणायेत्यर्थः /

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88