Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 22
________________ प्रत्यक्षखण्डे मङ्गलवादः कारणत्वग्रहमुपपादयति 'तथापी ति / 'तथाविधशिष्टाचारानुमिते'ति अविगीतशिष्टाचारानुमितेत्यर्थः। 'मानमिति' तस्य पुरुषस्य तदानीं प्रमाजनकमित्यर्थः / न चानुमितवेद आनुपूर्वी विशेषानिश्चयेन नार्थप्रत्यये क्षम इति वाच्यं, विनाप्यानुपूर्वीज्ञानं तदर्थबोधकत्वेन ज्ञातादेव शब्दात्तदर्थबोधादिति भावः / श्रत्यनुमानश्च 'नमस्कारादिकं वेदबोधितसमाप्तिसाधनताकं, समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वाद् इति / साध्ये विशिष्य समाप्तेः प्रवेशादविगीतशिष्टाचारविषयत्वे सामान्यतो हेतूकृते दर्शादावेव व्यभिचार इति हेतौ समाप्त्युद्देश्यकेत्याचारविशेषणम् / उद्देश्यत्वश्च विषयताविशेषः। तथा च 'यो यदुद्देश्यकाविगीतशिष्टाचारविषयः, स वेदबोधिततत्साधनताकः, यथा दर्शः' इति सामान्यतो व्याप्तिः। शिष्टकृते निष्फले चैत्यवन्दनादौ व्यभिचारवारणाया विगीते'ति / अविगीतत्वं वेदनिषिद्धाविषयकत्वम् / शिष्टकृतनिष्फलञ्च 'वृथा चेष्टां न कुर्वीत' इत्यादिवेदनिषिद्धमेव / पश्वादिकृते निष्फले व्यभिचारवारणाय 'शिष्टेति' / शिष्टत्वश्च बालकपतितान्त्यजाद्यतिरिक्तत्वे सति वेदप्रामाण्याभ्युपगमविशिष्टत्वम् , अभ्युपगमो निश्चयः। . ___ न च तथापि वेदप्रामाण्याभ्युपगन्तुर्भोजनादौ व्यभिचार इति वाच्यम् , अलौकिकत्वे सतीत्यनेनापि विशेषणीयत्वात् / अलौकिकत्वञ्च लोकावगतेष्टसाधनताश्रयान्यत्वम् / वेदतदुपजीविप्रमाणातिरिक्तप्रमाणं लोकः, दर्शादेरिष्टसाधनत्वस्य वेदेन तदुपजीविना 'यागः स्वर्गसाधनं, स्वर्गसाधनत्वेन वेदबोधितत्वाद्' इत्यनुमानेनैव वा बोधनान्न दृष्टान्तासिद्धयादिः / तावत्पदार्थोपस्थितिसहकृतमनोजन्यविशिष्टज्ञानमादाय यथा न दृष्टान्तासिद्धयादिस्तथा वेदलक्षण एव स्फुटीभविष्यति / . न च तथापि भ्रान्त्या स्वर्गफलान्यफलमुद्दिश्य यथोक्तशिष्टकृतयागादौ व्यभिचारः, तस्य तत्साधनत्वेन वेदाबोधितत्वादिति वाच्यं, चैत्यवन्दनादिवत् तस्यापि वृथाचेष्टात्वेन वेदनिषिद्धत्वात् / स्वकर्तव्यताप्रयोजकेच्छाविषयस्वरूपायोग्यकर्मण एव वृथाचेष्टात्वात् / वस्तुतस्तु पश्वादितदितरसाधारणकृते चैत्यवन्दनादिनिष्फलसामान्ये स्वःफलान्यफलमुद्दिश्य कृते यागादौ च व्यभिचारवारणाय 'शिष्टे'ति / शिष्टत्वम्-भ्रमाजन्यत्वम् / भोजनादौ लौकिककर्मणि व्यभिचारवारणाया विगीतेति'। अविगीतत्वं-लौकिकाविषयकत्वं, तच्च निरुक्तमेव / न च तथापि उत्पन्नतत्त्वज्ञानिकृते चैत्यवन्दनादौ व्यभिचारः, तस्यापि भ्रमाजन्यत्वादिति 1. नार्थप्रत्यायन इति ग० / 2. तदर्थज्ञापकत्वेनेति ग० / 3. वेदप्रामाण्याभ्युपगन्तृत्वमिति ग० / 4. लोकावगतेष्टसाधनताश्रयाविषयकत्वरूपमित्यर्थः /

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88