Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 21
________________ तत्त्वचिन्तामणौ सरहस्ये व्यभिचारेण कारणत्वस्याभावादुपायसहस्रेणापि ग्रहीतुमशक्यत्वात् / तथापि तथाविधशिष्टाचारानुमितश्रुतिरेव मङ्गलस्याभिमतहेतुत्वे मानम् / शेषानुमानेन' समाप्त्यन्यफलजनकत्वबाधज्ञानसहकारेण, 'तत्कारणताग्रह' समाप्तिकारणताग्रहः, इति योजना / 'प्रारिप्सिते'त्यादिग्रन्थस्तु पूर्ववदिति व्याचक्रः / / __'व्यभिचारेण' व्यभिचारज्ञानेन, अन्यथासिद्धत्वग्रहेण चेति शेषः। 'कारणत्वस्याभावात्' कारणत्वाभावज्ञानात् , तथा च बाध इति भावः। 'उपायसहस्रण' हेतुसहस्रण, 'ग्रहीतुमशक्यत्वादिति / न च प्रमत्तानुष्ठितसमाप्तिस्थले जन्मान्तरीयमङ्गलसंशयेन व्यभिचारसंशयादन्यथासिद्धत्वसंशयाच बाधसंशय एव, न तु बाधनिश्चयः; स चानुमानप्रवृत्तावनुकूल एव, न तु प्रतिबन्धक इति वाच्यम् , प्रमत्तानुष्ठितसमाप्तिस्थले जन्मान्तरमङ्गलस्य साधकाभावेन व्यतिरेकनिर्णये व्यभिचारनिर्णयस्यैव सत्त्वाद्, अन्यथासिद्धत्वस्यापि निर्णयसत्त्वाच्च / न चैवं सिद्धान्ते वेदोऽपि कथं बोधकः स्यात् ? बाधनिश्चयसत्त्वेन योग्यताज्ञानविरहादिति वाच्यम्, मीमांसकनयेऽन्वयप्रयोजकरूप'वत्त्वस्यैव योग्यतात्वेन बाधनिश्चयसत्त्वेऽपि योग्यताज्ञानसम्भवाद् बाधनिश्चयस्य शाब्दबोधाप्रतिबन्धकत्वादिति भावः / ___ केचित्तु 'ग्रहीतुमशक्यत्वाद्' इत्यस्य अप्रामाण्यज्ञानानास्कन्दितनिश्चयस्याशक्यत्वादित्यर्थः। व्यभिचारान्यथासिद्धत्वयोः संशयसत्त्वादुत्पन्नायामप्यनुमितावप्रामाण्यसंशयादिति भावः / न चैवं सिद्धान्ते वेदस्यापि तादृशनिश्चयजनकत्वासम्भवः, व्यभिचारादिसंशयसत्त्वेन तत्राप्यप्रामाण्यसंशयसम्भवादिति वाच्यं , वेदजन्यत्वज्ञानादेव तत्र नाप्रामाण्यसंशय इत्यभिप्रायादित्याहुः, तदसत् ; तथा सति वेदानुमाने अप्रामाण्यसंशयस्य दुर्वारत्वादिति ध्येयम्। . यद्यपि तत्पुरुषस्य तदानीं प्रत्यक्षादितो मङ्गले समाप्तिकारणत्वग्रहासम्भवेऽपि पुरुषान्तरस्य कालान्तरे तस्यैव पुरुषस्य च समाप्तिकारणत्वप्रत्यक्षानुमानसम्भवात् प्रत्यक्षानुमानमपि तत्र प्रमाणं सम्भवति, अन्यथा दण्डादावपि प्रत्यक्षादितो घटादिकारणत्वासिद्धिप्रसङ्गात् , कस्यचित् पुरुषस्य कदाचित् तत्रापि व्यभिचारादिज्ञानसत्त्वात् , तथापि प्रौढिवादेन तादृशपुरुषस्यापि तस्मिन् काले समाप्ति१. एकपदार्थेऽपरपदार्थान्वयस्य योग्यतात्वे तज्ज्ञानं प्रति तदभावात्मकं बाधं गृह्णतो ज्ञानस्य प्रतिबन्धकत्वं युक्तम्, परं तादृशान्वयप्रयोजकरूपस्य योग्यतात्वे तादृशान्वयाभावात्मकबाधज्ञानस्य ग्राह्याभावानवगाहितया न ताशरूपात्मकयोग्यताज्ञाने प्रतिबन्धकत्वसम्भव इति तात्पर्यम् /

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88