Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 20
________________ प्रत्यक्षखण्डे मङ्गलवादः त्वात्' अनुमातुस्तादृशपुरुषस्योपस्थितत्वात्। तथा च समाप्तिजनकत्वाभावसाधकोक्तहेतोरज्ञानासिद्धि रिति भावः।। ननु तथापि समाप्तिभिन्नस्य ग्रामपशुहिरण्यादेरपि फलत्वज्ञानसम्भवात् सत्यन्तविशेषणज्ञानमेव नास्ति, कुतोऽनुमानमिदमित्यत आह 'फलान्तरस्येति समाप्तिभिन्नस्य ग्रामपशुहिरण्यादेरित्यर्थः / 'अतथाभावात्' अतथाभूतत्वेनोपस्थितत्वात् , मङ्गलकर्तुस्तदानीं कामनाया अविषयत्वेनोपस्थितत्वादिति यावत् / तथा च हेतुज्ञानसत्त्वाद् 'मङ्गलं न समाप्तिभिन्नग्रामादिफलक, प्रामादिविषयककामनावत्पुरुषाकर्तृकत्वाद, घटादिविषयककामनावत्पुरुषाकर्तृको यागादिर्यथा न घटादिफलक' इति सामा- . न्यतोदृष्टानुमानेन ग्रामादिफलकत्वाभावज्ञानमिति भावः। नन्वेतादृशानुमानेन समाप्तिभिन्नग्रामादिफलकत्वाभावज्ञानसम्भवेऽपि विश्वजिन्यायेन समाप्तिभिन्नस्वर्गफलकत्वज्ञाने बाधकाभावात् कुतः सत्यन्तविशेषणज्ञानं ? स्वर्गकामनां विना समाप्तिकामनाया एवानुपपन्नतया मङ्गलकत्तुस्तदानीं स्वर्गकामनाया अप्यावश्यकत्वेनोक्तहेतुना स्वर्गफलकत्वाभावज्ञानसम्भवादित्यत आह 'विश्वजिदिति / यथा विश्वजिद्यागस्य स्वर्गरूपफलाश्रवणेऽपि स्वर्गफलकत्वज्ञानं तथेत्यर्थः। 'फ.कल्पने' समाप्तिभिन्नस्वर्गफलकत्वज्ञाने गौरवादिति / २अनन्तस्वर्गव्यक्तिकल्पनारूपगौरवज्ञानस्य प्रतिबन्धकत्वादित्यर्थः / न च समाप्तित्वापेक्षया लघुतया स्वर्गवावान्तरवैजात्यस्य कार्यतावच्छेदकस्य कल्पनेऽनन्तस्वर्गव्यक्तिकल्पनं फलमुखतया न दोषायेति वाच्यम् , फलमुखगौरवस्यापि दोषत्वादिति भावः। ___ यद्वा स्वर्गमात्रस्य फलत्वे नियमतः समाप्तिकामनया शिष्टानां मङ्गलानुष्ठानानुपपत्त्या समाप्तिस्वर्गयोरुभयोः फलत्वकल्पने गौरवमिति गौरवज्ञानस्य प्रतिबन्धकत्वादित्यर्थः / स्वर्गकामना च समाप्तिकामनोपपादकतयोपपन्नेति भावः / नव्यास्तु 'इति फलसिद्धाविति'। तस्य पुरुषस्य तदानीं जायमानायामिति शेषः। तथा चैतदनुमानेन तस्य पुरुषस्य तदानीं सफलत्वसिद्धौ जायमानायां 'परि१. समाप्तेमङ्गलकर्तु : काम्यत्वेन मङ्गले कथितहेतोरज्ञानरूपासिद्धिरिति भावः / 2. मङ्गलस्य स्वर्गफलकत्वस्वीकारे स्वर्गस्य क्षणिकसुखविशेषात्मकतया स्वर्गजनने मङ्गलस्य द्वारभूतमदृष्टं यावदवतिष्ठते तावदेकस्याः स्वर्गव्यक्तेदुष्कल्प्यत्वेनानन्तस्वर्गव्यक्तिकल्प नायां गौरवमित्याशयः / 3. फलोत्तरभाविनो गौरवग्रहस्य पूर्व फलं प्रति विरोधित्वासम्भवेन फलमुखं गौरवं न दोष इत्याशयः / मङ्गलं यदि स्वर्गफलकं स्यात्, तदाऽनन्तफलकं स्यादिति दिशा फलविचारवेलायामेव गौरवस्योपस्थिततया तद्ग्रहस्य फलं प्रति विरोधिताया निर्बाधतया फलमुखं गौरवमपि दोष इत्यभिप्रायः /

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88