Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 18
________________ प्रत्यक्षखण्डे मङ्गलवादः ताडनादौ व्यभिचारवारणायाविगीतेत्याचारविशेषणम् , 'अविगीतत्वम् वेदनिषिद्धाविषयकत्वं, पापाजनकत्वं वा / शिष्टकृतं निष्फलश्च न तथा / __ नित्यनैमित्तिकैश्चैव काम्यरन्यैरहितः / कर्मभिस्तु नयेत् कालं न विप्रः क्षणिको भवेत् / / इत्यनेन, 'वृथा चेष्टां न कुर्वीत' इति, 'निष्फलानि च कर्माणि नारभेत विचक्षणः' . इत्यादिना च तन्निषेधात् / तथापि पश्वादिकृतनिष्फलचेष्टायां व्यभिचारः। 'नित्यनैमित्तिकै' रित्यादिनिषेधविधीनामुपक्रमानुरोधेनाधिकारिमात्रपरतया तदीयवृथाचेष्टाया अनिषिद्धत्वादतः “शिष्टे'ति / शिष्टत्वञ्च बालपतितान्त्यजाद्यतिरिक्तत्वे सति वेदप्रामाण्याभ्युपगन्तृत्वम् / न च तथापि भोगे व्यभिचारः तस्याप्युहेश्यतया कृतिविषयत्वादिति वाच्यम् ; साध्यत्वेन प्रवृत्तिविषयतायाः२ फलव्यावृत्ताया एव अत्र प्रवेशात् / एतेन नान्तरीयकस्य प्रवृत्तिविषयत्वाभ्युपगमेऽपि निष्फले भोजनादिनान्तरीयके न व्यभिचारः, तत्र तादृशविषयत्वाभावात् / परमेश्वरकृतेरपि तादृशविषयत्वाभावात् तादृशविषयत्वाभ्युपगमेऽपि प्रवृत्तित्वादिजातेस्तत्राभावाच्च न तामादाय निष्फले जलताडनादौ व्यभिचारस्तदवस्थः। न च तथापि कीर्तनादिना फलाजनके शिष्टकृतयागे व्यभिचार इति वाच्यम् ; स्वरूपयोग्यत्वरूपस्य फलजनकत्वस्य विवक्षितत्वात् तस्य च तत्रापि सत्त्वात् / / यद्वा आचारश्चात्र कृतिमात्रम् , तथा च बौद्धकृते निष्फलजलताडनादौ व्यभिचारवारणाय शिष्टेत्याचारविशेषणम् / शिष्टत्वम्-भ्रमाजन्यत्वम् , परमेश्वरकृतेरपि निरुक्तविषयत्वात्तामादाय निष्फले व्यभिचारवारणायाविगीतेत्याचारविशेषणम् / 'अविगीतत्वम्' अनित्यत्वम् / केचित्त-अविगीताचारविषयत्वात् , शिष्टाचारविषयत्वादिति हेतुद्वये तात्पर्यम् , निष्फले चैत्यवन्दनादौ व्यभिचारवारणाय प्रथमहेतावविगीतत्वं, द्वितीयहेतौ च शिष्टत्वमाचारविशेषणम् / अविगीतत्वश्च इष्टोत्पत्तिनान्तरीयकदुःखभिन्नदुःखाजनकत्वं, "बलवदनिष्टाननुबन्धित्वे सति इष्टसाधनत्वं वा / तद्ग्रहश्च शिष्टेकवाक्यतया, जलताडनादिकन्तु नैतादृशं निष्फलत्वात् , कर्ममात्रस्यैव कष्टत्वाच्च / न तु वेदनिषिद्धाविषयकत्वं पापाजनकत्वं वा अविगीतत्वं, तावता वैदिककर्माधिकारिणा कृते निष्फळे व्यभिचारवारणसम्भवेऽपि पश्वादिकृतवृथाचेष्टायां व्यभिचारस्य दुरित्वात् / 1. तत्र निषेधादिति ख० / 2. साध्यताख्यायाः प्रवृत्तिविषयताया इत्यर्थः / 3. साध्यताख्यविषयताप्रवेशेनेत्यर्थः / साध्यत्वेन प्रवृत्तिविषयत्वाभावादित्यर्थः / 5. बलवत्त्वं च इष्टोत्पत्तिनान्तरीयकभिन्नत्वम् /

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88