Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 17
________________ तत्त्वचिन्तामणौ सरहस्ये नापि मङ्गलं सफलम् , अविगीतशिष्टाचारविषयत्वाद् दर्शवदिति फलसिद्धौ' प्रारिप्सतसमाप्तेस्तदानीमपेक्षितत्वेन नियमेनोपस्थितत्वात् फलान्तरस्यातथाभावाद् विश्वजिन्यायेन फलकल्पने गौरवात् परिशेषानुमानेन तत्कारणताग्रहः। केचित्तु -मङ्गलं न समाप्त्यन्वयव्यतिरेकज्ञानजन्यतत्कालीनतत्पुरुषीयसमाप्तिकारणत्वप्रकारकप्रत्यक्षनिश्चयविषयः, तत्कालीनतत्पुरुषीयसमाप्तिव्यभिचारित्वग्रहविषयत्वादिति समुदितार्थ इत्याहुः / ___ ननूक्तहेतुरसिद्धः, तस्य हि पुरुषस्य तदानी प्रमत्तानुष्ठितसमाप्ताहिकमङ्गलव्यभिचारित्वग्रहेऽपि न तत्र मङ्गलसामान्यव्यतिरेकव्यभिचारित्वग्रहः, तेन पुरुषेग प्रमतानुष्ठितसमाप्तिपूर्व जन्मान्तरीयमङ्गलानुमानादित्यभिप्रायेणाशङ्कते 'न च तत्रे'ति / तत्र-प्रमत्तानुष्ठितसमाप्तिपूर्वम् , 'जन्मान्तरीयतत्कल्पन' तेन पुरुषेण तदानीं जन्मान्तरीयमङ्गलानुमानम् , 'इयं समाप्तिमङ्गलपूर्विका, समाप्तित्वात्, शिष्टानुष्ठितसमाप्तिवदित्येवंरूपेणेति भावः / 'अन्योन्याश्रयादिति' सिद्धे जन्मान्तरीयमङ्गले व्यभिचारज्ञानाभावे हेतुताप्रहः, हेतु ताग्रहे च समाप्तित्वेन जन्मान्तरीयमङ्गलानुमानम् , अन्यथा त्वप्रयोजकम् , इत्यन्योन्याश्रयादित्यर्थः / नन्वनुकूलतर्को न व्याप्तिग्रहहेतुः, किन्तु कचिद् व्यभिचारज्ञाननिवर्तकतया तस्योपयोगः, तथा च कारणत्वग्रहं विनापि व्यभिचारज्ञानसामग्र्या असार्वदिकत्वेन समाप्तित्वे स्वतःसिद्धमङ्गलपूर्वकत्वव्यभिचारज्ञानाभावादेव जन्मान्तरीयमङ्गलानुमानसम्भव इत्यस्वरसाद् हेत्वन्तरमाह 'लोकावगतकारणेने ति कण्ठताल्वाद्यभिघातादिनेत्यर्थः / अन्यथासिद्धेश्च' तस्य पुरुषस्य तदानीं मङ्गले समाप्तिं प्रति अन्यथासिद्धत्वज्ञानाच्च / तथा च तत्कालीनतत्पुरुषीयमङ्गलनिष्ठान्यथासिद्धत्वज्ञानविषयनिरूपितकारणतात्वादिति हेतुः / तस्य पुरुषस्य तदानीमनुमानेनापि मङ्गले न समाप्तिकारणताग्रहसम्भव इत्याह 'नापी' 'त्यादिना, 'कारणताग्रह' इत्यन्तेन / मङ्गलमिति नमस्कारादिकमित्यर्थः / नतिस्तुत्यादिसाधारणस्य मङ्गलत्वस्यैकस्याभावान्मङ्गलपदस्य नानार्थत्वात् / 'सफलमिति' अभीष्टफलजनकमित्यर्थः / अभीष्टत्वञ्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् / 'अविगीतशिष्टाचारविषयत्वादिति'। अविगीतो यः शिष्टाचारस्तद्विषयत्वादित्यर्थः / आचारः-प्रवृत्तिः न तु क्रिया, विषयत्वानन्वयात् / शिष्टकृते निष्फलजल१. सफलत्वसिद्धाविति ख०, ग०, च / 2. अभीष्टफलत्वञ्चेति ख० / 3. स्वं मङ्गलं तत्कर्तव्यताप्रयोजिका इच्छा समाप्तीच्छा तद्विषयत्वात्समाप्तेरभीष्टफल त्वमित्याशयः।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88