Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये इह खलु सकलशिष्टैकवाक्यतया अभिमतकर्मारम्भसमये तत्समाप्तिकामा मङ्गलमाचरन्ति। तत्र यद्यपि मङ्गलस्य कारणता नान्वयव्यतिरेकगम्या विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्तेः / न च तत्र जन्मान्तरीयतत्कल्पनम् , अन्योन्याश्रयाल्लोकावगतकारणेनान्यथासिद्धेश्च / 'स्वसिद्धे'त्यस्य स्वस्य-साधनस्य, सिद्धः अन्तः-अवसानम् , वृत्तमिति वचसो दरिद्रतेत्यर्थ इत्याहुः / एतन्मते नाकारप्रश्लेषः॥३॥ ___ स्वयंकृतस्य मङ्गलस्य कदाचित् केनचित् निरर्थकत्वमाशङ्कथेतेत्यतो मङ्गलस्य सफलत्वं व्यवस्थापयितुं प्रथमतो मीमांसकसम्प्रदायमतमुपदर्शयति 'इहे' त्यादिना 'सम्प्रदायविद' इत्यन्तेन / 'इह' अस्मिन् लोके, मनुष्यलोक इति यावत् / 'खलु' अवश्यम् , 'सकलशिष्टैकवाक्यतया' मङ्गलस्य समाप्तिहेतुत्बेन सकलशिष्टसम्मततया / एतेन भ्रममूलकता निराकृता' / 'आरम्भसमये' तत्पूर्वसमये / 'तत्समाप्तिकामाः' अभिमतकर्मसमाप्तिकामाः / ननु समाप्तिहेतुताया मङ्गलवृत्तित्वे किं मानम् ? न तावत् प्रत्यक्षम् , यस्य पुरुषस्य प्रमत्तकर्तृकसमाप्तिस्थले ऐहिकमङ्गलविरहनिश्चयो मङ्गले लोकावगतकारणेन समाप्ति प्रति अन्यथासिद्धत्वग्रहश्च विद्यमानस्तेन पुरुषेण तदानीं मङ्गलवृत्तितया तस्याः प्रत्यक्षतो निश्चेतुमशक्यत्वात् / अत एव नानुमानाद्यपि, तादृशपुरुषविशेषेण तदानीं तस्यानुमानादिनापि ग्रहासम्भवादित्यत आह 'तत्र यद्यपि' इति / तत्र-आचारे, सप्तम्यर्थो निमित्तत्वं तच्च प्रयोजकत्वम् , अन्वयश्चास्य कारणतायाम: तथा च तदाचारप्रयोजकीभता समाप्तिकारणता यद्यपि तादृशपुरुषविशेषेण ताशकालविशेषे न मङ्गलस्यान्वयव्यतिरेकगम्यति योजना। एतेन मङ्गलवृत्तिसमाप्तिकारणतात्वेन पक्षत्वे ताशकारणतायां सिद्धायां विवादाभावः ; असिद्धायामाश्रयासिद्धिः / न च मङ्गलवृत्तिकारणतात्वेन पक्षता, न तु समाप्त्यन्तर्भावः, समाप्त्यन्वयव्यतिरेकगम्यत्वाभावश्च साध्यः, कारणतात्वञ्च कारणपदप्रवृत्तिनिमित्तत्वम् , तेन कारणतात्वस्य कार्यभेदेन विभिन्नतया प्रकृतकारणतात्वेन पक्षत्वे आश्रयासिद्धिः, कारणतान्तरत्वेन पक्षत्वे चार्थान्तरमिति दोषस्य नावकाश इति वाच्यम् ; तत्रेत्यस्यानन्वयापत्तेः; मङ्गलवृत्तिकारणतायास्तादृशाचारविषयत्वासिद्वेरिति दूषणं प्रत्युक्तम्, समाप्तिकारणतात्वेन पक्षत्वात् / तादृशपुरुषविशेषस्य तादृश१. नापीति ख०। 2. सम्प्रदाय इत्यन्तेनेति ग० / 3. 'एतेन' इत्यस्य 'मङ्गलस्य समाप्तिहेतुत्वेन सकलशिष्टसम्मतत्वकथनेन' इत्यर्थः / 4. 'मङ्गलस्य समाप्तिहेतुताया' इति 'भ्रममूलकता' इत्येतत्पूर्व योज्यम् / 5. सर्वेषां शिष्टानां मङ्गलस्य समाप्तिहेतुत्वे भ्रमो न सम्भवतीत्याशयः / mr

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88