Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये 'नित्यनैमित्तिकैरि'त्यादिनिषेधविधीनामधिकारिमात्रपरत्वात् / द्वितीयहेतौ च शिष्टत्वंभ्रमाजन्यत्वम् / अन्यत् सर्वे पूर्ववदित्याहुः। केचित्त-सफलमित्यस्य पापाजनकत्वे सतीष्टसाधनमित्यर्थः / तथा च श्येनयागागम्यागमनादौ व्यभिचारवारणायाविगीतेत्याचारविशेषणम् / अविगीतत्वं-पापाजनकत्वं, निष्फले चैत्यवन्दनादौ व्यभिचारवारणाय 'शिष्टेति' / शिष्टत्वश्च इष्टसाधनताभ्रमाजन्यत्वं, न तु भ्रमाजन्यत्वमात्रं, तथा सति अगम्यागमनाद्याचारस्यापि बलवदनिष्टाननुबन्धित्वभ्रमजन्यतया हेतावविगीतपदवैयापत्तेः / बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यजनकत्वनये भ्रमाजन्यत्वमात्रमेव तत् / न च 'कष्टं कर्म' इति न्यायात् 'वृथा चेष्टां न कुर्वीत' इत्यादिस्मृतेश्च' चैत्यवन्दनादावपि पापजनकत्वाच्छिष्टपदवैयर्थ्यमिति वाच्यम्, तद्विलक्षणपापस्यैवात्र प्रवेशात् पश्वादिकृतवृथाचेष्टाया अप्युक्तक्रमेण पापाजनकतया तत्रैव व्यभिचारवारकत्वेन पापसामान्यप्रवेशेऽपि सार्थकत्वसम्भवाच्चेत्याहुः / तदसत् / समाप्तिफलकत्वविचारे विशिष्टसाध्यकरणेऽर्थान्तरत्वापत्तेरिति सक्षेपः / 'इति फलसिद्धौ' इत्यनुमानेन, सफलत्वसिद्धौ जातायाम् , 'परिशेषा. नुमानेन तत्कारणताग्रहः' तस्य पुरुषस्य, तदानीं मङ्गले समाप्तिकारणताग्रह इति योजना। परिशेषानुमानश्च 'मङ्गलं समाप्तिजनकं, समाप्त्यन्यफलाजनकत्वे सति सफलत्वाद्' इत्याकारकम् / फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् , तेन मङ्गलस्य स्वध्वंसविघ्नध्वंसादिजनकत्वेऽपि न सत्यन्तविशेषणासिद्धिः२ / एतदनुमाने च पूर्वानुमान विशेष्यदल साधकतयोपयुक्तमिति भावः। ननु 'मङ्गलं न समाप्तिजनक, समाप्तिविषयककामनावत्पुरुषाकर्तृकत्वाद्, घटादिविषयककामनावत्पुरुषाकर्तृको यागादिर्यथा न घटादिजनक' इति सामान्यतोदृष्टानुमानेन' मङ्गले समाप्तिजनकत्वाभावज्ञानात् कथमिदं समाप्तिजनकत्वानुमानमित्यत आह 'प्रारिप्सितेति' / 'नियमेनापेक्षितत्वेन' नियमेन मङ्गलकतः कामनाविषयत्वेन, 'उपस्थित 1. श्रुतेश्चेति ख, ग, च / 2. स्वं मङ्गलं, तत्कर्तव्यताप्रयोजिका इच्छा समाप्तीच्छा, न तु तद्ध्वंसस्य तत्साध्यविघ्न ध्वंसस्य वा इच्छा, अतः समाप्तेरेव फलत्वं न तु तयोः / एवं च सत्यन्तशरीरे फलांशानिवेशे समाप्त्यन्यस्मिन् स्वध्वंसे विघ्नध्वंसे च मङ्गलस्य कारणताया: सम्भवतया विशेषणासिद्धर्नावकाश इति भावः। 3. 'मङ्गलं समाप्तिफलकं, समाप्त्यन्याफलकत्वे सति सफलत्वाद्' इत्यनुमाने। 4. 'मङ्गलं सफलम्, अविगीतशिष्टाचारविषयत्वाद्' इत्यनुमानम् / 4. उक्तहेतुघटकसफलत्वरूपविशेष्यदलेत्यर्थः / 5. 'यो यद्विषयककामनावत्पुरुषाकर्तृकः स न तज्जनक' इत्यनुमानेनेत्यर्थः /

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88