Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः कालविशेषे मङ्गलान्वयव्यतिरेगम्यत्वश्च मङ्गलान्वयव्यतिरेकसहचारज्ञानजन्यमङ्गलवृत्तिताप्रकारकप्रत्यक्षनिश्चयविषयत्वम् , तथा च 'समाप्तिकारणता न मङ्गलान्वयव्यतिरेकसहचारज्ञानजन्यतत्कालीनतत्पुरुषीयमङ्गलवृत्तिताप्रकारकप्रत्यक्षनिश्चयविषय' इति फलितम् / अखण्डाभावस्य साध्यत्वान्न जन्यान्तभागवैयर्थ्यम् / पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया च नांशतः सिद्धसाधनम् / समाप्तिकारणतात्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे मङ्गलावृत्तिसमाप्तिकारणतायामुक्तसाध्यस्य सिद्धतया सिद्धसाधनं स्यादिति भावः। नन्वनन्यथासिद्धनियतपूर्ववर्तिता कारणता, तत्रानन्यथासिद्धत्वज्ञाने न सहचारज्ञानापेक्षा', न वा नियमांशज्ञानेऽपि; व्यापकतामहे सहचारग्रहस्याहेतुत्वात् / धूमत्वादिघटितव्याप्तिग्रह एवान्वयसहचारग्रहस्य हेतुत्वेन व्यवस्थापितत्वात् / अत एवान्वयोऽन्वयसहचारधीः, व्यतिरेकश्च व्यभिचारज्ञानव्यतिरेकः, तदुभयजन्यतादृशप्रत्यक्षनिश्चयविषयो नेत्यर्थ इत्यपि निरस्तम् / व्यतिरेकसहचारज्ञानवदन्वयसहचारज्ञानस्याप्यहेतुत्वात् / / ____ अत्राहुः-तदितरयावत्कारणसत्त्वे तत्सत्त्वेऽवश्यं कार्यम् , तदभावे च कार्याभाव इत्यन्वयसहचारव्यतिरेकसहचारहो विशिष्टकारणतासाक्षात्कारहेतुः, तथैवान्वयव्यतिरेकात् ; न त्वंशभेदव्यवस्था / नव्यास्तु-अन्वयो हेत्वभाववति कार्यान्वयज्ञानं व्यभिचारज्ञानमिति यावत् / तद्व्यतिरेकजन्यतादृशनिश्चयविषयो नेत्यर्थ इति प्रोचुः / हेतुमाह 'विनापि'इति / तदानीं तत्पुरुषेण विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्त्युत्पत्तिदर्शनादित्यर्थः / तथा च तत्कालीनतत्पुरुषीयमङ्गलव्यतिरेकव्यभिचारग्रहविषयनिरूपितकारणतात्वादिति हेतु तो वैयधिकरण्यम् / 1. जन्यान्तभागरहितस्यापि साध्यत्वानुसरणेन यद्यप्यभिमतं सिद्धयति तथापि तदंशरहितस्य तस्याभावान्तरत्वेन तस्य तदंशघटिततादृशाभावात्मकसाध्ये प्रविष्टतया न तदंशवैयर्थ्य मिति भावः / 2. अन्यथा जलादी वह्नयादेरनन्यथासिद्धत्वं न गृह्येत, गृह्यते च 'तद्धर्मावच्छिन्नं प्रति नियतपूर्ववर्तित्वे सति तद्धर्मावच्छिन्नकारणतयाऽव्यवह्रियमाणं यद्यत् तत्तद्भेदकूटवत्त्व' रूपं तदिति भावः। 3. अन्यथा वह्नौ धूमसहचारग्रहणे धूमेऽपि वह्निव्यापकताग्रहः स्यादिति भावः / 4. वह्नथादिसामानाधिकरण्यावच्छेदकधूमत्वादिरूपव्याप्तिग्रह इत्यर्थः / 5. इति प्राहुरिति ख०। 6. पक्षतावच्छेदकेन सह हेतो सामानाधिकरण्यम् / अन्यथा पक्षतावच्छेदकस्य समाप्तिकार णतायां 'विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्त्युत्पत्तिदर्शन'रूपस्य हेतोश्च तत्पुरुषे सत्त्वेन तयोस्तत्स्यादिति भावः /

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88