Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये अन्वीक्षानयमाकलय्य गुरुभित्विा गुरूणां मतं चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् / यो गुणातीतोऽपि 'त्रिगुणसचिवः' स्वनिष्ठज्ञानेच्छाकृतिसहकारेण कार्यमात्रहेतुः / स्वनिष्ठत्वप्रवेशाद् विरोधः / एवं 'गुणातीतोऽपि' इत्यस्य सर्वत्रान्वयः / 'त्र्यक्षरमयः' त्रयो ज्ञानेच्छाप्रयत्नाः, अक्षराः-अविनाशिनः यत्र, तन्मयः-तदात्मकः / केचित्तु 'त्र्यक्षरमयः' त्रयः-अकारोकारमकाराः, अक्षराः-वर्णाः, तन्मयः तद्घटितौङ्कारपदाभिधेयः, सङ्केतसम्बन्धेन ॐकाररूपशब्दवानिति यावत् / गुणातीतपदेन सम्बन्धसामान्यावच्छिन्नगुणसामान्याभाववतो विवक्षितत्वाद् विरोधः / समवायसम्बन्धावच्छिन्नगुणसामान्याभावपरतया सत्त्वादिलक्षणगुणाभावपरतया वा विरोधपरिहार इत्याहुः / 'त्रिमूर्तिः' इति / सन्निति शेषः / ब्रह्मविष्णुशिवात्मकशरीरत्रयवान् सन् , सृष्टिस्थितिप्रलयकर्माणि 'तनुते' इत्यर्थः / 'तनुते' विस्तारानुकूलयत्नवान् , अतो विरोधः। एतेन सर्गादिरेव ईश्वरे प्रमाण मिति सूचितम् / 'कृपापारावारः' निरुपधिपरदुःखप्रहाणेच्छा' 'कृपा', तस्या असाधारणाधिकरणमित्यर्थः। अत्रापि इच्छाया गुणत्वाद् विरोधः। 'त्रिजगताम्', 'परमगतिः' परमहितकर्ता, कर्तृत्वस्य गुणत्वाद् विरोधः। 'एकः' अद्वितीयः, नित्यकृतिमवृत्तिभेदप्रतियोगितानवच्छेदकैकत्ववानिति यावत् / एकत्वस्य गुणत्वाद् विरोधः / तस्मै किम्भूताय ? इत्यपेक्षायामाह 'कस्मैचिद्' इति, विशिष्यानिर्वचनीयगुणग्रामायेत्यर्थः। पुनः किम्भूताय ? 'अमितमहिम्ने' महिमा-सौन्दर्यकरुणादयः / पुनः किम्भूताय ? 'पुरभिदे'--एकदा पुरभेदनकर्त्रे। पुरभिदित्यनेन एकदा पुरत्रयभेदनसमर्थस्य सुतरां विघ्नवारणक्षमत्वं सूचितम् // 1 // 1. अत्र अग्रे च सर्वत्र 'विरोध' इति पूर्वं 'गुणातीतत्वेन' इति योज्यम् / 2. 'सम्बन्धसामान्येन गुणो नास्ति' इत्याकारकप्रतीतिसिद्ध-सम्बन्धत्वावच्छिन्नसंसर्गक प्रतियोगिताकगुणसामान्याभाववत इत्यर्थः / 3. अनुमानविधयेति भावः / 4. निरुपधिपरदुःखप्रहरणेच्छेति ग० / अन्यथा स्वसजातीयद्वितीयराहित्यस्याद्वितीयशब्दार्थत्वे ईश्वरसजातीयस्य द्वितीयस्याभावेन प्रतियोग्यप्रसिद्धथा तदभावरूपस्य तद्राहित्यस्याप्रसिद्धिस्तस्य गुणानात्मकतया गुणातीतत्वेन तद्विरोधस्यानुपपत्तिश्च स्यात् / ईश्वरगतैकत्वस्यापि कृतिमज्जीवनिष्ठभेदप्रतियोगितावच्छेदकतया, नित्यस्य जात्यादेराश्रये गगनादौ वृत्तिमतो भेदस्य प्रतियोगितावच्छेदकतया नित्यायां कृतौ वर्तमानस्य भेदस्य प्रतियोगितावच्छेदकतया च नित्य, कृति, मदिति शब्दानामुपादानम् /

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88