Book Title: Tattva Chintamani Author(s): M M Mathuranatha, Badrinath Shukla Publisher: Sampurnanand Sanskrit Vishva Vidyalaya View full book textPage 6
________________ प्रास्ताविकम् चतुर्दशविद्यासु न्यायविद्याऽन्यतमा दर्शनप्रवेशद्वारभूता सर्वासां विद्यानां चोपकारिकेति जानन्त्येव तत्त्वज्ञा मनीषिणः। उपनिषत्सु प्रसिद्धाऽऽत्मविद्या परत आन्वीक्षिकीत्यभिधानेन प्रथामगात् / किन्तु तत्रात्मविद्यया सह हेतुयौंगपद्येन यदा समन्वेति, तदैव साऽऽन्वीक्षिकी जायत इत्यान्वीक्षिक्यामात्मविद्या हेतुश्चेति तत्त्वद्वयम् / ऋते हेतुभ्य आन्वीक्षिकी खल्वात्मविद्यामात्रतयाऽवशिष्यते / तदुक्तं न्यायभाष्ये वात्स्यायनेन—'इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयम् आन्वीक्षिकी न्यायविद्या / तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः / तेषां पृथगवचनमन्तरेणाध्यात्मविद्यामात्रमियं स्याद् यथोपनिषदः' इति / अतो न्यायशास्त्रीयषोडशपदार्थानां ज्ञानेन मोक्षः समाश्रूयते न्यायनिकाये। गोतममुनेायसूत्ररचना खीस्ताब्दात् प्राग मन्यते तत्त्वविद्भिः। खीस्ताब्दीयदशमशताब्दीभवस्योदयनस्य कालं यावन्यायसूत्रं समजनि भाष्यवार्तिकटीकोपटीकामण्डितम् / न्यायवार्तिकतात्पर्यटीकाकारो वाचस्पतिमिश्री मिथिलामहीमण्डनः प्रसिद्धो भूमण्डले सर्वतन्त्रस्वतन्त्रोपाधिविभूषितः / श्रीमानुदयनोऽपि तमेव वसुन्धराभागमलञ्चक्रे / गोतमसूत्रप्रणयनसमनन्तरमेव बौद्धन्यायाभयापि समुद्भासितानि दिगन्तराणि / न्यायभाष्यं प्रत्यादिष्टवतो दिग्नागाचार्यस्य प्रत्याख्यानमुद्द्योतकरेण कृतम् / प्रभविष्णुना बौद्धनैयायिकेन धर्मकीर्तिना निराकृतो भारद्वाज उद्द्योतकरः। वाचस्पतिमिश्रेण बौद्धनैयायिको धर्मकीर्तिनिरसितः / ज्ञानश्रीमित्रेण बौद्धपण्डितेनास्य खण्डनं कृतम् / ज्ञानश्रीमित्रप्रतिष्ठापितबौद्धमतनिराकृतावुदयनाचार्येण समर्जिता महती प्रतिष्ठा / यद्यपीतः परमपि बौद्धनैयायिकानां परम्परायां पञ्चषा ग्रन्थकारा दृश्यन्ते, तथापि वृक्णमूलो बौद्धन्यायपादपो गतासुरेवाभूत् स्थूणारूपतामादधानः।। - यथा महायुद्धानन्तरं / सर्वत्र महत् परिवर्तमं / नैसर्गिकमावश्यकं च मन्यते समैः, तथैव सहस्त्राब्दीच्यापिनोऽस्माद् वागायोधनतः परं न्यायनिकायेऽपि महीयान् व्यतिहारः समापतितः / श्रीमदुदयनं यावत् सूत्रव्याख्यानपद्धतिं हित्वा स्वातन्त्र्येण, न्यायविषयकग्रन्थरचनापरिपाटी नोपक्रान्ता / ताहगनूनकविचारसमावेशः सूत्रानुसारिणां व्याख्यानानामन्तर्बभूव / ततः परं सूत्रानुसारिकाकानमु शित्वा निरवग्रहं प्रकरणतो ग्रन्थरचना प्रारब्धा / महती संक्रान्तिवेलाऽसौ / तत्र सर्वतः प्रथमं * सर्वज्ञः पूर्वप्रचलितपरमराभङ्गसौभाग्यभागभूद् न्यायसाराख्यं विरचय्य ग्रन्थरत्नम् / न्यायनिकाये सूत्रानुसारिव्याख्यानपरिवर्जनपुरस्सरंPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 88