Book Title: Tattva Chintamani Author(s): M M Mathuranatha, Badrinath Shukla Publisher: Sampurnanand Sanskrit Vishva Vidyalaya View full book textPage 7
________________ [ आ ] शास्त्रांशप्रतिपादकप्रकरणग्रन्थादिप्रणयनेनावतीर्णा कापि भव्या नव्यता / इह षोडशपदार्थेध्वन्यतमस्य प्रमाणपदार्थस्य तथोपपादनं क्रियते यदवशिष्टाः पञ्चदशपदार्थास्तदन्तराविशन्ति भवन्ति च तत्कुक्षिगताः। उदयनात् परतः भासर्वज्ञाच्च पूर्वतो मिथिलायां न्यायशास्त्रमवलम्ब्य ग्रन्थप्रणयने यद्यपि शून्यतैव परिलक्ष्यते, तथापि तत्राध्ययनाध्यापनादिक्षेत्रेऽनितरसाधारणो व्यतिहारः समजायतेति भासर्वज्ञस्य शताब्दद्वयानन्तरं वाचस्पत्युदयनभूमौ द्वादशे खीस्ताब्दे नव्यन्यायद्यमणिरवतीणों महामहोपाध्यायो गङ्गशोपाध्यायः। सविताऽसौ नव्यन्यायशास्त्रस्य चिन्तामणिमिव तत्त्वचिन्तामणिनामक ग्रन्थमरीरचत् / सत्वरमेव समन्ततो व्याप्ताश्चिन्तामणिप्रकाशदीधितयः / तस्यालोकेन समालोकितानि सर्वाण्येव शास्त्राणि / पाणिनीयव्याकरणे सूत्रानुसारिणीं व्याख्यां हित्वा पूर्व प्रकरणशः पश्चाच्च स्वातन्त्र्येण ग्रन्थाः प्रणेतुमुपक्रान्ताः / नत्यन्यायवद् नव्यव्याकरणाध्यथनाध्यापनपरम्परा समारब्धा / इदानीं नव्यन्यायाध्ययनमन्तरा शास्त्रान्तरे गतिर्नाङ्गीक्रियते पण्डितप्रकाण्डैः। विश्वस्मिन् कस्यचन दर्शनग्रन्थस्य न तावत्यो विस्तृताश्च व्याख्या लभ्यन्ते यावत्यश्चिन्तामणेः। कतिचित्' 'तु मूलग्रन्थादपि सन्त्यत्यर्थं दुर्योधाः / इमाः सर्वा व्याख्याकारद्वयमतिरिच्य मैथिलैरेव लब्धवर्णविरचिताः। इत्थं तत्त्वचिन्तामणिः प्रसूतः पोषितश्च मिथिलायाम् , वर्धितस्तु वङ्गदेशे, श्रीनन्दनयनानन्ददो देवकीनन्दनो यथा प्रसूतो मथुरायाम् , पोषितो गोकुले, क्रीडितश्च वृन्दावने / चतुःखण्डात्मकस्यास्य ग्रन्थस्य साम्प्रतं किमपि संस्करणं नास्ति समुपलब्धम् इति धिया विश्वविद्यालयेनानेन संकल्पितमासीदस्य योजनाबद्धं प्रकाशनं मथुरानाथतर्कवागीशकृतटीकाविराजितम् एकोनषष्ट्युत्तरैकोनविंशे खीस्ताब्दे नैयायिकशिरोमणेः पण्डितप्रवरस्य श्रीवदरीनाथशुक्लमहोदयस्य सम्पादकत्वे / किन्तु दैवदुर्विपाकाद् योजना सा यथाप्रस्तावं नाङ्गीकृताऽभूत् / सम्प्रति सप्तहायनानन्तरं यावन्मुद्रितभागस्य मङ्गलवादान्तस्य प्रकाशनं विश्वविद्यालयेन निर्णीतम् / मङ्गलवादान्तस्तत्त्वचिन्तामणिश्चतसृभिष्टीकाभिष्टिप्पण्यैकया च संवलितः श्रीसूर्यनारायणशुक्लमहोदयसम्पादितो वाराणसेयराजकीयसंस्कृतमहाविद्यालयेनैकोनचत्वारिंशदुत्तरैकोनविंशे खीस्ताब्दे प्रकाशमानीतोऽभूत् / स च बहोः कालान्मुद्रणातीतो जातः। एतर्हि प्रकाशमानीयमानेन ग्रन्थरत्नेनानेन जिज्ञासुजना विद्वज्जनाश्व नूनमुपकृताः प्रीणिताश्च भवेयुरिति मन्यते / गङ्गादशहरापर्वणि.. . भागीरथप्रसादविपाठी 'वागीशः शास्त्री, 2033 बैक्रमाब्दे : * अनुसन्धानसंस्थाननिदेशकः 7 / 6 / 76 सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 88