Book Title: Sutak Sambandhi Shastriya Saral Samaj
Author(s): Vijayjaidarshansuri
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 48
________________ સૂતક સંબંધી શાસ્ત્રીય સરળ સમજ / ते स्नाताः शुचिवसना गुरुं साक्षीकृत्य विविधपूजाभिर्जिनमर्चयन्ति / ततश्च बालकस्य मातापितरौ पंचगव्येनाचान्तस्नातौ सशिशू नखच्छेदं विधाप्य योजितग्रन्थी दंपती जिनप्रतिमां नमस्कुरुतः / सधवाभिर्मङ्गलेषु गीयमानेषु वाद्येषु वाद्यमानेषु सर्वेषु चैत्येषु पूजानैवेद्यढौकनं च। साधवे यथाशक्त्या चतुर्विधाहारवस्त्रपात्रदानं / संस्कारगुरवे वस्त्रतांबूल भूषणद्रव्यादिदानं / तथा जन्मचन्द्रार्कदर्शनक्षीराशनषष्ठीसत्क-दक्षिणा संस्कारगुरवे तस्मिन्नहनि देया / सर्वेषां गोत्रजस्वजनमित्रवर्गाणां यथाशक्त्या भोजनतांबूलदानं / तथा गुरुः तत्कुलाचारानुसारेण शिशो: पंचगव्यजिन-स्नात्रोदक सर्वौषधिजलतीर्थजलैः स्नपितस्य वस्त्राभरणादि परिधापयेत् / तथा च नारीणां सूतकस्नानं पूर्णेष्वपि सूतकदिवसेषु नार्द्रनक्षत्रेषु न च सिंहगजयोनिनक्षत्रेषु कुर्यात् / आर्द्रनक्षत्राणि दश यथा- 'कृतिका भरणी मूलमार्दा पुष्यपुनर्वसू / मघा चित्रा विशाखा च श्रवणो दशमस्तथा // 1 // आर्द्रधिष्ण्यानि चैतानि स्त्रीणां स्नानं न कारयेत् / यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते // 2 // सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा / भरणी रेवती चैव गजयोनिर्विचार्यते // 3 // ' कदाचित्पूर्णेषु सूतकदिवसेष्वेतानि नक्षत्राण्या-यान्ति तथा दिनैकैकान्तरेण शुचिकर्म विधेयम् / ' 'ततः सर्वेऽपि स्नानं विधाय अनेन मार्गेण स्वगृहमायान्ति / तत्र तृतीयदिने चिताभस्म पुत्रादयो नद्यां प्रवाहयन्ति तदस्थीनि तीर्थेषु स्थापयन्ति / ततस्तद्दिने स्नात्वा शोकापनोदं कुर्वन्ति / चैत्येषु गत्वा सपरिजना जिनबिंबमस्पृशन्तश्चैत्यवन्दनं कुर्वन्ति / ततो धर्मागारेष्वागत्य गुरुन् नमस्कुर्वन्ति / गुरवोऽपि संसारानित्यारुपां धर्मव्याख्यां कुर्वन्ति / ततः सर्वेऽपि स्वकार्यं साधयन्ति / ' .....स्वस्ववर्णानुसारेण सूतकं मृतजातयोः / सदृशं गर्भपाते तु सूतकं स्याद्दिनत्रयम् // 2 // यतः अन्यवंशे समुद्भूते मृते जातेऽथ तद्गृहे / परिणीतसुतायाश्च सूतकान्नाशने तथा // 3 // एतेषु चैव सर्वेषु सूतकं स्याद्दिनत्रयम् / सूतकं सूतकं हन्ति जातं जातं मृतं मृतम् // 4 // अनन्नभोजिबालस्य सूतकं स्याद्दिनत्रयम् / अनष्टवार्षिकस्यापि त्रिभागोनं च सूतकम् // 5 // ' स्वस्ववर्णानुसारेण सूतकान्ते जिनस्नपनं साधर्मिकवात्सल्यं च ततः कल्याणं / (5. 8 थी 14, पृ. 70)

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131