Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 37
________________ (२८) सूर्यसिद्धांत: [ प्रथमोऽचकारादस्मिन् कृतयुगान्ते निरंशत्वमंशाभावतां न प्राप्ताः । तथाच तेषां राश्यादिकथने गौरवं मन्दगतित्वादेकदानीताः सहस्रवर्षपर्यंतमुपयुक्ता भवंतीति निरंतरं तत्साधनावश्यकताभावात्तेषामानयनं त्रेतादिगताब्दभ्य उपेक्षितमिति भावः । यदि च तत आनीयन्ते तदा स्वस्वक्षेपयुक्ताः कार्याः । क्षेपकास्तु रविमन्दोच्चं राश्यादिकं । ७ । २८ । १२ । भौमस्य ३ । ३ । १४ । २४ । बुधस्य ५।४ । ४ । ४८ गुरोः । ९ । । ० । शुक्रस्य ११ । १३ । २१ । ० । शनेः ४ । २० । १३ । १२ । भौमपातस्य ९ । ११ । २० । १२ । बुधस्य ८ । ११ । १६ । ४८। गुरोः ८८ ५६ । २४ । शुक्रस्य ४ । १७ । २५ । ४८ । शनिपातस्य ४ । २० । १३ । १२। एवमिष्टकालादपि ग्रहाः साध्याः स्वस्वक्षेपयोजनपूर्वम् ॥ ५८ ॥ भा० टी०-उच्च चन्द्रमा मकरका और चंद्रमाका पात तुलाकी आदिमें था मन्द चलनेवाले मंदोच्चांदिके अंशादिभी थे इस कारण नहीं कहे गये ॥ ५८ ॥ ___ अथ ग्रहाणां देशान्तरफलानयनाथै भूपरिधि स्वोपजीव्यभूव्यासक थनपूर्वकमाह योजनानि शतान्यष्टौ भूक! द्विगुणानि तु ॥ तर्गतो दशगणात्पदं भूपरिधिर्भवेत् ॥ ५९॥ अष्टौ शतानि द्विगुणानि षोडशशतं योजनानि भूको भुवो भूगोलस्य कर्णो वृत्तपरिधिमध्यभागसूत्रं परिध्यर्द्धमितचापस्य ज्यारूपं द्विगुण इत्यनेन शतान्यष्टौ केंद्रात्परिधिपर्यंतमृजुसूत्रस्य मानमिति सूचितम् । कक्षाव्यासाद्धस्य कर्णव्यवहारवदस्यापि भूकर्णव्यवहारः तुकारात्पुराणविरुद्धोऽपि प्रत्यक्षसहकृतागमप्रमाणसिद्धः । अस्मात् परिधिज्ञानमाह । तदर्गत इति । भूव्यासवर्गातुल्ययोर्घातरूपाद्दशगुणान्मूलम् । क. स्यायं समद्विघात इति तन्मूलं तत्प्रकारश्च ग्रन्थांतरे प्रसिद्धः भूपरिधिः स्यात् । अत्रोपपत्तिः । गजाग्निवेदराममित ३४३८ त्रिज्यायाः कक्षाव्यासाईत्वाद्विगुणत्रिज्यारूपव्यासे चक्रकलातुल्यः परिधिः २१६०० तदेष्टव्यासे क इति गुण २१६०० हरौ ६८७६ हरेणापवर्तितौ हरस्थाने रूपं गुणस्थाने सार्दाष्टावयवयुतास्त्रयस्तथा च व्यासोऽनेन गुणितः परिधिर्भवति । तत्रभगवता गुणस्यैकस्थानकरणार्थ वर्गः कृतः ९ । ५२ । ५२।अत्र स्वल्पान्तराद्दशगृहीताः वर्गण वगै गुणयेदित्युक्तत्वाझ्यासवर्गो दशगुणितस्तन्मूलं व्यासो मूलरूपगुणगुणितः सिद्धो भवति । यद्यपि वर्गस्थाने दशग्रहणेन स्थूलमिदमानयनं तथापि परमकारुणिकेन भगक्ता लोकानुग्रहार्थ गणितलाघवायांगीकृतम् । वस्तुतो भगवता वेदमंगलविश्वरूपमितव्यासस्य११३८४ । परिधिणिता गतः प्रत्यक्षेण ___ मंदोच्चके ० । ७ । २८ । १२ । मं.३ । ३ । १४ : २४ । ५ । ४ । ४ । ४८ बृ० । ९ । शु. ११। १३ .२१ ।। ४ । २० । १३ । १२ पात म ९ । ११ । २० ।। २ ८।११६ । ४८ । बृ ८॥ .८ । ५६ । २४ । शु ४ । १७ । २५ । ४८ । श ४ । २० । १३ । १२ कृतयुगक अमामें थे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262