Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 239
________________ (२३०) सूर्यसिद्धान्तः-- [त्रयोदशोमा०टी०-और सब पारेसे युक्त, जल, सूत्र, शिल्पकी निपुणता, तेलयुक्त जल, पारा, बालू सब यंत्रों का प्रयोग करना अत्यन्त दुर्लभ है ॥ २२ ॥ अय कपालाख्यं जलयन्त्रमाह ताम्रपात्रमश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि ॥ षष्टिमज्जत्यहोरात्रे स्फुटं यन्त्र कपालकम् ॥ २३॥ यसम्रघटितं पात्रमश्छिद्रमधोभागे छिद्रं यस्य तत् । अमलाम्भसि निर्मलं जलं विद्यते यस्मिंस्तादृशे कुण्डे बृहद्भाण्डे न्यन्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेव न न्यूनाधिक मजति । अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्न मपति । तत्कपालकं कपालमेव कपालकं घटखण्डानां कपालपदवाच्यत्वाद्धटाधस्तनार्धाकार यन्त्रं घटीयन्त्र स्फुटं सूक्ष्मं तद्घटनं तु “शुल्बस्य दिग्भिर्विहितं पलैर्यत्पडंगुलो झं द्विगुणायतास्यम् । तदम्भसा षष्टिपलैः प्रपूर्य पात्रं घटार्धप्रतिमं घटी स्यात् ॥ सत्र्यंशमाषत्रयनिर्मिताया हेनः शलाका चतुरमुला स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाम्बुभिस्तत् ॥” इति व्यक्तम् । भगवता तु सूक्ष्ममुक्तम् ॥ २३ ॥ भाण्टी-निर्मल जलभरे हुए कुम्भमें (नाद) नीचे जिसमें छेद है ऐसा ताबका पात्र रक्स (कटोरा) यह कपालक यंत्र दिनरातमें साटवार जलमें डूपैगा ॥ २३ ॥ अथ शड्डयन्त्र दिवैव कालज्ञानार्थ नान्यदेत्याह नरयन्त्र तथा साधु दिवा च विमले रवौ ॥ छायासंसाधनः प्रोक्तं कालसाधनमुत्तमम् ॥ २४ ॥ विमले मेघादिव्यवधानरूपमलेन रहिते सूर्य एतद्रूपे दिने । चकार एवकारार्थस्तेन साभ्रदिनव्यवच्छेदः । नरयन्त्रं द्वादशांगुलशङ्कयन्त्रं तथा घटीयन्त्रवत्कालसाधकं साधु सक्ष्मं रात्रौ नेत्यर्थसिद्धम् । ननु शङ्कोश्छायासाधकत्वं न कालसाधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो यन्त्रत्वप्रतिपादनादित्यत आह-छायासंसाधनरिति । इदं शड्डरूपनरयन्त्र छायायाः सम्यक्सूक्ष्मत्वेन साधनैरवगमैः कृत्वा काल साधनं दिनगतादिकालस्य कारणमुत्तमम् । अन्ययन्त्रेभ्योऽस्मानिरन्तरतयातिश्रेष्ठम् । तथा च च्छायासाधकत्वेनैव च्छायाद्वाराशङ्कोः कालसाधकत्वामति न यन्त्रत्वव्याघातः । अतएव साभ्रदिने रात्री चानुपयुक्तः । नरस्य च्छायायन्त्रोपलक्षणत्वात् यष्टिधनुश्चकाज्यापि तथोते ध्येयम् ॥ २४ ॥ माल्टी०-दिनके समय जब निर्मळ सूर्य हो तब छायासंशोधनके लिये अत्युत्तम नरयंत्र (१२ अंगुल) समयको साधनके लिये कहाहे ॥ २४ ॥ अथादित एतदन्तग्रन्थज्ञानस्यैकफलकथनेन विभक्तमपि खण्डद्वयं कोडयति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262