Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 240
________________ संस्कृत टीका - भाषाटीकासमेतः ग्रहनक्षत्र चरितं ज्ञात्वा गोलं च तत्त्वतः ॥ ग्रह लोकमवाप्नोति पर्यायेणात्मवान्नरः ।। २५ ।। ग्रहनक्षत्राणां चरितं गणितविषयकं ज्ञानं ग्रन्थपूर्वखण्डरूपं गोलं भूगोलभगोलस्वरूपप्रतिपादकग्रन्थं ग्रन्थोत्तरार्धान्तर्गतम् । चकारः समुच्चये । तत्त्वतः वस्तुस्थितिसद्भावेन सार्वविभक्तिकस्तसिरित्येके । ज्ञात्वावगम्य नरः पुरुषः । ग्रहलोकं चन्द्रादिग्रहाणां लोकं तल्लोकाधिष्ठितस्थानं ग्रहोपलक्षणान्नक्षत्राधिष्ठित स्थानमपीति ध्ययम् । प्राप्नोति । ननु ग्रहलेोकप्राप्त्या कः पुरुषार्थ इत्यतो मोक्षरूपं पुरुषार्थफलमाह । पर्यायेणेति । जन्मान्तरेण पुरुष आत्मवानात्मज्ञानी भवति । तथा चात्मज्ञानान्मोक्षप्राप्तिरेवेति भावः ॥ २५ ॥ ध्यायः १३. ] ( २३१ ) भा० टी० -ग्रहनक्षत्र चरित और गोल इनको भलीभांति जानवर मनुष्य ग्रहको क प्राप्त होकर अंत में आत्मवान् होता है || २५ || अथाग्रिमग्रन्थस्यासङ्गतिपरिहारायारब्धाध्यायसमाप्ति फक्किक्कयाह इति ज्योतिषोपनिषदध्यायः ॥ १३ ॥ इति यथा वेदे आत्मस्वरूपनिरूपणान्नारायणोपनिषदुच्यते तथा ज्योतिःशास्त्रे प्रदिपादितानां ग्रहनक्षत्राणामेतद्वन्यैकदेशे स्वरूपादिनिरूपणा ज्योतिःशाखसारं ज्योति यो पनिषदुच्यते । तत्संज्ञोऽध्यायो ग्रन्थैकदेशः सम्पूर्ण इत्यर्थः । रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । ज्योतिषोपनिषत्सञ्ज्ञोध्यायः पूर्णोपरार्धके ॥ इति श्री सकलगण कसार्वभौम बल्लालदेवज्ञात्मजरंग नाथगणक विरचिते गूढार्थप्रकाशके उत्तरखण्डे ज्योतिषोपनिषदध्यायः पूर्णः ॥ १३ ॥ तेरहवां अध्याथ समाप्त । चतुर्दशोऽध्यायः । अथ मानानि कति किश्च तैरित्यवशिष्टप्रश्नस्योत्तरभूत आरब्धमानाध्यायो व्याख्यायते । तत्र प्रथमं मानानि कतीति प्रथमप्रश्नस्योत्तरमाह ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा ॥ सोरं च सावनं चान्द्रमार्श मानानि वै नव ॥ १ ॥ वै निश्वयेन । नवसंख्याकानि कालमानानि । तत्र प्रथमं ब्राह्ममानम् । 'कल्पा ब्राह्ममहः प्रोक्तम्' इत्यादि । 'परमायुः शतं तस्य तयाहोरात्रसंख्यया' इत्यन्तं मध्यमाधिकारे प्रतिपादितम् । द्वितीयं दिव्यं देवमानम् ' दिव्यं तदह उच्यते ' इत्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262