Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 246
________________ ध्यायः १४.] संस्कृतटीका-भाषाटीकासमेतः। (२३७) अथ क्रमप्राप्तं नक्षत्रमानं प्रसंगान्माससंज्ञां चाह भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ॥ नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः ॥ १५॥ नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृतपरिभ्रमः । नाक्षत्र नक्षत्रसम्बन्धि दिनं मानज्ञैः कथ्यते । नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरासः । भचकभ्रमणानुपपत्तेः । माससंज्ञा भहानक्षत्रनाम्नेति । पर्वान्तयोगतः पवान्तपूर्णिमान्तः । तस्य योगात्तत्सम्बन्धात् । नक्षत्रसंज्ञया माताः । तुकाराच्चान्द्रा अवगम्याः पूर्णिमान्तस्थितचन्द्रनक्षत्रसंज्ञो मासो ज्ञेय इति तात्पर्याथः । यथाहि यह शान्तावधिकश्चान्द्रो मासस्तदभ्यंतरस्थितपूर्णिमान्तस्थितचन्द्रनक्षत्रसंज्ञः । चित्रासम्ब न्धाच्चैत्रः। विशाखासम्बन्धाद्वैशाखः । ज्येष्ठासम्बन्धाज्येष्ठः । आषाढासम्बन्धादाषाढः । श्रवणसम्बन्धाच्छावणः । भाद्रपदासम्बन्धाद्भाद्रपदः । अश्विनीसम्बन्धादाश्विनः । कृत्तिकासम्बन्धात्कार्तिकः । मृगशीर्षसम्बन्धान्मागेशीर्षः । पुष्यसम्बन्धा त्पौषः । मघासबन्धान्माघः । फाल्गुनीसम्बन्धात्फाल्गुन इति ॥ १५ ॥ भा०टी०-दैनिकभचक्रका भ्रमण करनाही नाक्षात्रकदिन है। पूर्णिमान्ताधिष्ठित नक्षत्रके नामसे मासका नाम जानना चाहिये ॥ १५ ॥ ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं सत्संज्ञा मासानुचिते आह कार्तिक्यादिषु संयोगे कृत्तिकापि द्वयं द्वयम् ।। अन्त्योपान्त्यो पञ्चमश्च विधा मासत्रयं स्मृतम् ॥ १६॥ नक्षत्रसंयोगार्थमिति निमित्तसप्तमी । कार्तिक्यादिषु कार्तिकमासादीनां पौर्णमासीवित्यर्थः । कृत्तिकादि यंद्वयं नक्षत्रं कथितं कृत्तिकारोहिणीभ्यां कार्तिकः मृगाभ्यां मार्गशीर्षः । पुनर्वसुपुष्याभ्यां पौषः । आश्लेषामघाभ्यां माघः । चित्रास्वातीभ्यां चैत्रः। विशाखानराधाभ्यां वैशाखः । ज्येष्ठामूलाभ्यां ज्येष्ठः । पूर्वोत्तराषाढाभ्यामाषाढः । श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् । अवशिष्टमासानाह-अन्त्योपान्त्याविति । अत्र कार्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः । उपान्त्यो भाद्रपदः । एतौ मासी । पंचमः फाल्गुनः । चकारः समुच्चय इति । मासत्रयं त्रिधा स्थानत्रय उक्तम् । रेवत्यश्विनीभरणीति नक्षत्रत्रयसम्बन्धादाश्विनः । शततारापूर्वोत्तराभाद्रपदेति नक्ष त्रयसम्बन्धाद्भाद्रपदः । पूर्वोत्तराफाल्गुनीहस्तोत नक्षत्रत्रयसंबन्धात्फाल्गुनं इति सिद्धम् ॥ १६ ॥ मा० टी०-कार्तिक मासकी पूर्णिमासे दो दो नक्षत्र में एक एक मासका नाम वेषल आश्विन, भाद्र, और फाल्गुन मासका नाम तीन नक्षत्राम सिद्ध है ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262