Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 237
________________ (२२८) सूर्यसिद्धान्तः [त्रयोदशोऽगणक शिल्पादिस्वकौशल्येन कारयेत् । यन्त्रे कालसाधके विस्मयकारिण स्वयंवह रूपतया लोकानामुत्पन्नाश्चर्यस्य कारणभूते बीजं स्वयंवहतासम्पादकं कारणमेकाकी एकव्यक्तिकोऽद्वितीयः सन्योजयेत् । शिल्पज्ञतया स्वयमेव निष्पादयेदित्यर्थः । अन्यथा द्वितीयस्य तज्ज्ञानेन तन्मुखात्तद्यन्त्रहादस्य लोकश्रवणगोचरतायां कदाचित्सम्भावि. तायां विस्मयानुत्पत्तेः ॥ १९॥ ... भाल्टी०-कालसाधनके लिये यंत्रोंको बनावे; विस्मयकारी बीज मकेल'ही यंत्रमें मिलाये ११ अथैषां स्वयंवहयन्त्राणां दुर्घटत्वाच्छंक्वादियन्त्रैः कालज्ञानं ज्ञेयमित्याह शंकुयधिधनुश्चक्रेश्छायायन्त्रैरनेकधा । गुरूपदेशाद्विज्ञेयं कालज्ञानमतंद्रितः ॥ २० ॥ । शङ्कुयष्टिधनुश्चकैः प्रसिद्धैश्छायायन्त्रैश्छायासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरूपदेशात्स्वाध्यापकस्य नियाजक्थनादतन्द्रितैरभ्रमैः पुरुषः कालज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम् । एतत्सर्वं सिद्धान्तशिरोमणी भास्कराचार्यैः स्पष्टीकृतम् । तत्र शङ्कस्वरूपम्-“समतलमस्तकपरिधिभ्रमसिद्धो दन्तिदन्तजः शङ्कः । तच्छायातः प्रोक्तं ज्ञानं दिनेशकालानाम् ॥” इति । यष्टियन्त्रं च-"त्रिज्याविष्का म्भार्थ वृत्तं कृत्वा दिगङ्कितं तत्र । दत्त्वागां प्राक्पश्चाद्यज्यावृत्तं च तन्मध्ये । तत्परिधौ षष्टयत यष्टिर्नष्टद्युतिस्ततः केन्द्रे । त्रिज्यांगुला निधेया यष्टयग्राग्रान्तरं यावत् ॥ यावत्या मौा यद्वितीयवृत्ते धनुर्भवेत्तत्र । दिनगतशेषा नाड्यः प्राक्पश्चात्स्युः क्रमे. णैवम् ॥” इति.। चक्रयन्त्रन्तु-"चक्रं चक्रांशाङ्क परिधौ श्लथशृंखलादिकाधारम् । धात्रीत्रिम आधारात्कल्प्याभार्धेत्र खार्धं च ॥ तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुख. नेमिकं धायम् । भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः ॥ तत्वार्धान्तश्चरता उन्नतलवसंगुणं युदलम् । द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥” इति । धनुयन्त्रं तु-'दलीकृतं चक्रमुशन्ति चापम्' इति । अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादिविचारश्चोपेक्षित इति मन्तव्यम् ॥ २० ॥ भा०टी०-विना भ्रमवला पुरुष गुरुके पदेशसे शंकु, यष्टि, धनु, चक्र, अनेक प्रकारक छायायंत्रसे कालको जाने ।। २० ॥ अथ घटीयंत्रादिभिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साधयदिति कालसाघनमुपसंहरति तोययंत्रकपालाद्यैर्मयूरनरवानरैः ॥ ससूत्ररेणुगभैश्च सम्यकालं प्रसाधयेत् ॥ २१ ॥ ... जलयन्त्रं च तत्कपालं च कपालाख्यं जलयंत्रं वक्ष्यमाणं तदाद्यं प्रथमं येषां पर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रमयूरनरवानरैः । मयूगरख्यं स्वयंवयन्त्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262