Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १३.] संस्कृतटीका-भाषाटीकासमेतः । (२२७) गोलबहिर्भूतयष्टिमान्नयोर्ययेच्छया स्थानद्वये स्थानत्रये वा नेमि परिधिरूपामुत्कीर्य तां तालपत्रादिना विकणवस्तुलेपनाच्छाद्य तत्र छिद्रं कृत्वा तन्मार्गण पारदोऽर्धपरिधौ पूर्णो देयः इतरार्द्धपरिधी जलं च देयं ततो मुद्रितच्छिद्रं कृत्वा यष्टयग्रे भित्तिस्थनलिकयोः क्षेप्ये यथा गोलोऽन्तरिक्षो भवति । ततः पारदजलाकर्षितयष्टिः स्वयं भ्रमति । तदाश्रितो गोलश्च । एतत्पक्षे वस्त्रच्छन्नमाकाशाकारतासम्पादनार्थमेव चेत् क्रियत इति । नन्वियं स्वयंवहक्रिया व्यक्ता नोक्तेन्यत आह-गोप्यमिति । एतत्स्वयंवहकरणं गोप्यमप्रकाश्यम् कुत इत्यत आह-प्रकाशोक्तामति । अतिव्यक्ततयोक्तं स्वयंवह. करणमिह भूलोके सर्वगम्यं सर्वजनगम्यं भवेत् । तथाच सर्वज्ञेये वस्तुनि चमत्कारानुत्पत्तेश्चमत्कृयंथ सर्वत्र न प्रकाश्यमित्याशयेन तत्करणं व्यक्तं नोक्तमिति भावः ॥१७॥ ___ भा. टी०-परेके साथ गलयंत्रको सिद्ध करे, यह अतिगोपनीय प्रकाश करके कहनसे जाना जायगा ॥ १७ ॥
ननु त्वया गोप्यत्वेनोक्तं मया कथमगन्तव्यं मादृशैरन्यैश्च कथमवगन्तव्यमित्यतः मार्धश्लोकेनाह
तस्माद्गुरूपदेशेन रचयेगोलमुत्तमम् ॥ युगेयुगे समुच्छिना रचनेयं विवस्वतः ॥
प्रसादात्कस्यचिद्भयः प्रादुर्भवति कामतः ॥ १८॥ तस्मात्स्वयंवहकरणस्य गोप्यत्वाद्गुरूपदेशेन परम्पराप्राप्तगुरोनिर्व्याजकथनेन गोलं दृष्टान्तगोलमुत्तमं स्वयंवहात्मकं गणकः कुर्यात् । तथाच मया तुभ्यमुक्ता ग्रन्थे गोप्यत्वेनातिव्यक्ता नोक्तेति भावः । अन्यैः कथं ज्ञेयमिदमित्यत आह-युग इत्यादि । विवस्वतः सूर्यमंडलाधिष्ठातुर्जीवविशेषस्येयं स्वयंवहरूपा रचना क्रिया युगेयुगे बहुकाल इत्यर्थः । समुच्छिन्ना लोके लुमा कस्यचिन्मादृशस्य प्रसादादनुग्रहाद्भूयः वारंवारमिच्छया प्रादुर्भवति व्यक्ता भवतीत्यर्थः । तथाच यथा मत्तस्त्वयावगतं तथान्यस्मान्मादृशादन्यैरवगन्तव्यम् कालस्य निरवधित्वासृष्टेरनादित्वाचति भावः ॥ १८ ॥
मा० टी०-तिसके लिये गुरुके उपदेशसे उतम गोलको बनावै । यह युग २ में उच्छिन्न होता है, पान्नु सूर्य के प्रसाइसे किसी के लियेही फिर प्रगट होता है ॥ १८ ॥
अथोक्तस्वयंवहक्रियारीत्या स्वयंवहगोलातिरिक्तान्यस्वयंवहयंत्राणि कालज्ञानार्थ साध्यानि तत्साधनं रहास कार्यमिति चाह
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥
एकाकी योजयेद्वीजं यन्त्रे विस्मयकारिणि ॥ १९ ॥ तथा यथा स्वयंवहंगोलयन्त्रं साधितं तद्वदित्यर्थः। कालसंसाधनार्थाय कालस्य दिनगतादेः सुक्ष्मज्ञाननिमित्तं यन्त्राणि म्वयेवहगोलातिरिक्तानि स्वयंवहतंत्राणि साधयेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262