Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 234
________________ ध्यायः १३.] संस्कृतटीका-भाषाटोकासमेतः । (२२५) रूपमाह-अस्तमिति । तदशादुदयलग्नानुरोधादस्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदि क्प्रदेशमित्यर्थः । क्रान्तिवृत्तं गच्छत् यत्प्रदेशेन प्रवहवायुना सँलग्नं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नं समुच्यत इत्यर्थः । तथा च क्षितिजोर्ध्वं सदाक्रान्तिवृत्तस्य सद्भावा. दुदयास्तलग्नयोः षड्राश्यन्तरं सिद्धं लङ्कोदयैर्निरक्षदेशीयराश्युदयासुभिः । यथात्रिय. इनाधिकारोक्तप्रकारेण तत्संख्यामितं सिद्धं निष्पन्नम् । मध्यमं मध्यलग्नं तत्समध्योपरि खस्य दृश्याकाशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशरूपं नतु खंमध्यं भास्कराचार्याभिमतं स्वस्वस्तिकं तल्लग्नस्य कदाचित्कत्वन सदानुत्पत्तेः । तस्योपरिस्थित क्रान्तिवृत्तं याम्योत्तरवृत्ते तत्प्रदेशेन लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति तात्पर्यार्थः ॥ १३ ॥ भा०टी०-उदयक्षितिज वृत्तमें उसका अंशही लग्न है अस्तमें अस्त ( सातवा ) होता है । छंकोदयसे जो मध्यम सिद्ध होता है, वह अपनी मध्यरेखाके उपर है ॥ १३ ॥ अथ त्रिप्रश्नाधिकारोक्तान्त्यायाः स्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूपं चाह मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयते ।। ज्ञेया चरदलज्या च विषुवक्षितिजान्तरम् ॥ १४ ॥ या उत्तरगोले त्रिज्याचरज्यायुतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रसाधिकारोक्ता । अन्त्या सा मध्यं याम्योत्तरवृत्तं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तं तयोमध्येऽन्तरालेऽहोरात्रवृत्तस्यैकदेशे ज्या । उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि सूत्ररूपा ज्या सूत्रानुकारा न तु ज्या। अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावात् । अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका संगच्छते आभिधीयते गोलज्ञैः कथ्यते । नन्वन्त्योपजीव्यचरज्यैव विस्वरूपा यया तत्सिद्धिरित्यत आह-ज्ञेयोति । ' उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते' इति त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात्तिर्यगाधारवृत्तानुकारं स्थिर निरक्षक्षितिजं वृत्तमुन्मण्डलं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम् । चकारो विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैकदेशस्याधज्यारूपमृजुसूत्रमन्तविशेषात्मकम् । तथा च स्वनिरक्षदेशस्वदेशयोरुदयास्तसूत्रयोरन्तरमूर्ध्वाधरमिति फालतार्थः । चरदलज्या तदन्तरालस्थिताहोरात्रवृत्चैकदेशरूपचराख्यखण्डकस्य । नतु दलमर्धम् । ज्या चरज्येत्यर्थः । गोलज्ञैर्ज्ञातव्या ॥ १४ ॥ मा० टी०-मध्य और क्षितिजके मध्यमें जो ज्या है वही अन्त्य है । विषुवत् और शितिनके अन्तरको चरदल ज्या कहते हैं ॥ १४ ॥ ननु पूर्वश्लोकद्वयोक्तं क्षितिजस्याज्ञानादुर्बोधमित्यतः श्लोकार्धेन क्षिातेजस्वरूपमाहकृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् ॥ १५॥ १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262