________________
ध्यायः १३.] संस्कृतटीका-भाषाटोकासमेतः । (२२५) रूपमाह-अस्तमिति । तदशादुदयलग्नानुरोधादस्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदि क्प्रदेशमित्यर्थः । क्रान्तिवृत्तं गच्छत् यत्प्रदेशेन प्रवहवायुना सँलग्नं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नं समुच्यत इत्यर्थः । तथा च क्षितिजोर्ध्वं सदाक्रान्तिवृत्तस्य सद्भावा. दुदयास्तलग्नयोः षड्राश्यन्तरं सिद्धं लङ्कोदयैर्निरक्षदेशीयराश्युदयासुभिः । यथात्रिय. इनाधिकारोक्तप्रकारेण तत्संख्यामितं सिद्धं निष्पन्नम् । मध्यमं मध्यलग्नं तत्समध्योपरि खस्य दृश्याकाशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशरूपं नतु खंमध्यं भास्कराचार्याभिमतं स्वस्वस्तिकं तल्लग्नस्य कदाचित्कत्वन सदानुत्पत्तेः । तस्योपरिस्थित क्रान्तिवृत्तं याम्योत्तरवृत्ते तत्प्रदेशेन लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति तात्पर्यार्थः ॥ १३ ॥
भा०टी०-उदयक्षितिज वृत्तमें उसका अंशही लग्न है अस्तमें अस्त ( सातवा ) होता है । छंकोदयसे जो मध्यम सिद्ध होता है, वह अपनी मध्यरेखाके उपर है ॥ १३ ॥ अथ त्रिप्रश्नाधिकारोक्तान्त्यायाः स्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूपं चाह
मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयते ।।
ज्ञेया चरदलज्या च विषुवक्षितिजान्तरम् ॥ १४ ॥ या उत्तरगोले त्रिज्याचरज्यायुतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रसाधिकारोक्ता । अन्त्या सा मध्यं याम्योत्तरवृत्तं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तं तयोमध्येऽन्तरालेऽहोरात्रवृत्तस्यैकदेशे ज्या । उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि सूत्ररूपा ज्या सूत्रानुकारा न तु ज्या। अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावात् । अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका संगच्छते आभिधीयते गोलज्ञैः कथ्यते । नन्वन्त्योपजीव्यचरज्यैव विस्वरूपा यया तत्सिद्धिरित्यत आह-ज्ञेयोति । ' उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते' इति त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात्तिर्यगाधारवृत्तानुकारं स्थिर निरक्षक्षितिजं वृत्तमुन्मण्डलं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम् । चकारो विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैकदेशस्याधज्यारूपमृजुसूत्रमन्तविशेषात्मकम् । तथा च स्वनिरक्षदेशस्वदेशयोरुदयास्तसूत्रयोरन्तरमूर्ध्वाधरमिति फालतार्थः । चरदलज्या तदन्तरालस्थिताहोरात्रवृत्चैकदेशरूपचराख्यखण्डकस्य । नतु दलमर्धम् । ज्या चरज्येत्यर्थः । गोलज्ञैर्ज्ञातव्या ॥ १४ ॥
मा० टी०-मध्य और क्षितिजके मध्यमें जो ज्या है वही अन्त्य है । विषुवत् और शितिनके अन्तरको चरदल ज्या कहते हैं ॥ १४ ॥ ननु पूर्वश्लोकद्वयोक्तं क्षितिजस्याज्ञानादुर्बोधमित्यतः श्लोकार्धेन क्षिातेजस्वरूपमाहकृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् ॥ १५॥
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com