________________
( २२६ )
सूर्यसिद्धान्तः
[ त्रयोदशोऽ
भूगोले स्वकं स्वीयं स्थानं भूप्रदेशका देशरूपमुपरि सर्वप्रदेशेभ्य ऊर्ध्वं कृत्वा प्रकप्य मध्ये तादृशभूगोल ऊर्ध्वाधःखण्डस-धौ यद्वृत्तं तत्क्षितिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं संयुक्तं कार्यमिति भावः ॥ १५ ॥
मा०टी० - अपने स्थानको सबसे ऊपर करके मध्यम क्षितिजमण्डल स्थिर करे ॥ १५ ॥ अथैनं दृष्टान्तगोलं सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा प्रकामुमाह
वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम् ॥ अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥ १६ ॥
बहिः । गोलोपरीत्यर्थः । गोलाकारेण वस्त्रेण च्छन्न छादितं दृष्टान्तगोलम् । चकारात्रोपरि तत्तदृत्तानामङ्कनं कार्यम् । लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थवृत्तेन क्षितिजाख्येन संसक्तम् । अपिः समुच्चये । एतेन क्षितिजं वस्त्रच्छन्नं न कार्यं किंतु खोपरि क्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा भवति तथा कार्यमिति तात्पर्यम् | अमृतस्रावयोगेनैतादृशं गोलं कृत्वा जलप्रवाहाधोघातेन कालभ्रमणसाधनं पष्टिनाक्षत्रं घटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवति तथा साधनं कारणं कार्य स्वयंचद्दशेलयन्त्रं कार्यमित्यर्थः । एतदुक्तं भवति । दृष्टान्तगोलं वस्त्रच्छन्नं कृत्वा तदादक्षिणोत्तरमित्तिक्षिप्तनलिकयोः क्षेप्ये । यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात् । तो यष्ट्यर्जुमार्गगत जलप्रवाहेण पूर्वाभिमुखेन तस्याधः पश्चाद्भागे घातेोऽपि यथा स्या चथा स्यादर्शनार्थमेव वस्त्रच्छन्नमुक्तम्। अन्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघातदशेरभ्रमेण चमत्कारानुत्पत्तेः । आकाशाकारता सम्पादनार्थमपि वस्त्रच्छन्नमुक्तम् । इदं खमा यथा भवति तथा चिक्कणवस्तुना मदनादिना लिप्तं कार्यम् । क्षितिजवृत्ताकारेष्णाधोगोलो दृश्यो यथा स्यात्तथा परिखारूपा भित्तिः कार्या । परन्तु दक्षिणयष्टिमागस्तत्र शिथिलो यथा भवति । अन्यथा भ्रमणानुपपत्तेः । पूर्वदिक्स्थपरिखाविभागाद्बहिर्जलप्रवाहोऽदृश्यः कार्य इत्यादिस्वबुद्धचैव ज्ञेयमिति ॥ १६ ॥
मा०टी० - क्षितिजके बाहिर वस्त्रसे टक्कर वारिसंघातस वालभ्रमण साघन करे ॥ १६ ॥ अथ यदि जलप्रवाहस्तत्र न सम्भवति तदा कथं स्वयंवहो दृष्टान्तगोलो भवतीत्यवस्वत्स्वयं दहार्यमुक्तं च गोप्यं कार्यमित्याह
तुङ्ग जिमायुक्तं गोलपत्रं प्रसाधयेत् ॥ गोप्यमेतत्प्रकाशोकं सर्वगम्यं भवेदिह ॥ १७ ॥
दृष्टान्तगोली यन्त्रं तुंगबाज समायुक्तं तुङ्गो महादेवस्तस्य बीजं वीर्यम् पारद इत्यर्थः । तेन योजितं सत्प्रसाधयेत् । गणकः शिल्पज्ञः । प्रकर्षेण यथा नाक्षत्रपाष्टे - मंगलभ्रमस्तथा पारदप्रयोगेण सिद्धं कुर्यादित्यर्थः । एतदुक्तं भवति । निबद्ध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com