Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 233
________________ सूर्य्यसिद्धान्तः- अयनादयनं चैव कक्षा तिर्यक्तथापरा ॥ क्रान्तिसंज्ञा तथा सूर्यः सदा पर्येति भासयन् ॥ ११ ॥ ( २२४ ) अयनस्थानमारभ्य परिवर्तनतदयनस्थानपर्यन्तम् । चकार आरम्भसमाप्त्यार्भिन्नायन स्थाननिरासार्थकः । अपरा गोले आधारवृत्तसमा वृत्तरूपाकक्षा तथा राश्यङ्कमार्गेण । एवकारोऽन्यमार्गव्यवच्छेदार्थकः । तिर्यक् उक्तवृत्तानुकारविलक्षणानुकाग क्रान्तिसंज्ञाक्रमणं क्रान्तिः । ग्रहगमनभोगज्ञानार्थं वृत्तं तत्संज्ञमुपकल्पितम् । अयनविषुवद्दयसंसक्तं क्रान्तिवृत्तं द्वादशर स्यतिं गोले निबंधयेदिति तात्पर्यार्थः । भासयन् भुवनानि प्रकाशयन् सन् स सूर्यः । एतेन चन्द्रादीनां निरासः । सदा निरन्तरं तथा क्रान्तिसंज्ञया कक्षया पर्येत्ति स्वशक्त्या गच्छन् भगणपरिपूर्तिभागं करोति । सूर्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कल्पितमिति भावः ॥ ११ ॥ [ त्रयोदशो भा० टी० - एक अयन से दूसरे अयन में गयी हुई तिरछो कक्षाको क्रांतिकक्षा कहते हैं तिसके ऊपर सूर्य प्रकाशकरके भ्रमण करते हैं ॥ ११ ॥ ननु चन्द्राद्याः क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह चन्द्राद्याश्च स्वकेः पातैरपमण्डलमाश्रितैः ॥ ततोऽप्रकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् ॥ १२ ॥ चन्द्रादयोऽर्कव्यतिरिक्ता ग्रहाः स्वकैः स्वीयैः पाँतैः पाताख्यदैवतैरपमण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वभोगस्थाने धिष्ठितैस्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः । चकारद्विक्षेप्रान्तरेणापकृष्टा दक्षिण उत्तरतो वा कर्षिता भवन्ति । अतः कारणादपक्रमात्क्रान्तिवृत्तान्तर्गतस्वभोगस्थानादित्यर्थः । दक्षिण उत्तरतो वा विक्षेपान्तेषु गणितागतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्दृश्यन्ते । तथाच क्रान्तिवृतं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्ते पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुक्तं परमविक्षेपकलाभिस्तत्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षिणोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चंद्रादिगत्यनुरोधेन स्वं स्वं भिन्नं कल्पितं तत्र गच्छंतीति भावः ॥ १२ ॥ भा०टी०-चन्द्रादि अपने पातसे खिंचकर और वृत्तको आश्रित करते हैं। वैसेही आकृष्टहो कर अपने अपक्रमते विक्षेपान्तमें दिखाई देते हैं ॥ १२ ॥ अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाहउदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् ॥ कोदयैर्यथासिद्धं खमध्यापरि मध्यमम् || १३ | उदयक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थः । लग्नं क्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं तत् प्रदेशो मेषाद्यवधिभोगेनोदयलग्नमुच्यत इत्यर्थः । प्रसंगादरतलग्नस्क Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262