Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 213
________________ (२०४) सूर्यसिद्धान्तः [ द्वादशोऽएवं च देवदैत्ययोर्विपरीतावस्थानादिनराज्योरीत्यं युक्तमेवेति भावः ॥५१॥ मा० टी०-दिवाई मौर राज्य याम्योत्तर अयनान्तमें होताहै। मुरासुरका विपरीत मावसे हुआ करताहै | और वे अपने २ स्थानको उपर समझते हैं ॥ ११ ॥ अथ देवदैत्ययोरूवाधोरीतिमन्यत्रापि सदृष्टान्तमतिदिशति अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् ।। भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ॥५२॥ अन्ये देवदैत्यभिन्ना भूगोलस्थाः । अपिशब्दो देवदैत्ययोः समुच्चयार्थकः । समसूत्र' स्था भूव्यासान्तीरता नराः परस्परमधो मन्यन्ते । तत्रोदाहरति । भद्राश्वकेतुमालस्था इति । भद्राश्वकेतुमालशब्दौ स्वस्यान्तर्गतयमकोटिरोमकनगरविशेषाभिधायको स्पष्ट भूव्यासान्तरस्थत्वमंगीकरोतु यथाश्रुतं परस्परमधो मन्यन्ते तुर्यचरणस्तु ब्यक्त 'एव ॥ ५२॥ भा० टी०-वैसेही समसूत्रवाले गण परस्परको नीचे समझते हैं । जैसे भद्राश्च और केतुमाळ अथवा लंका और सिद्धपुरवासी समसूत्रवाले हैं ॥ ५२ ॥ अथोक्तं काल्पनिकमेत द्रढयन्नाह सर्वत्रैव महीगोले स्वस्थानमुपर स्थितम् ।। मन्यन्ते खे यतो गोलस्तस्य वाध्व क्वाप्यधः ॥ ५३॥ भूगोले सर्वत्र सर्वप्रदेशेषु मध्ये स्वस्थानं निजाधिष्ठितस्थानमूर्ध्वस्थितं तदधिष्ठिता मनुष्याः स्वाभिमानेनाङ्गोकुर्युः । अतः कारणाडूगोले सर्व एवोर्ध्वस्थाः । अधःस्थास्तु न भवन्त्येव । स्वापेक्षयोवधिःस्थत्वं न वस्तुत इति तत्त्वम् । अन्यथाधःस्थत्वेन पतनशङ्कया भूगोले मनुष्याद्यवस्थानानुपपत्तेः । अत्र कारणमाह-व इति । यतः कारणात् खे ब्रह्माण्डाकाशमध्यभागे भूगोलोऽस्ति । तथाच भूगोलादभितस्तुल्यत्वाद्भूगोले तत्त्वतयोध्वोंधोभागादेरसम्भव इति भावः । स्वाभिप्रायं स्पष्टयति-तस्येति । भूगोलस्याकाशमध्यस्थस्य समन्तादाकाशे क्व कस्मिन् भागे उर्ध्वमूर्ध्वत्वम् । कस्मिन् भागे । वा समुच्चये । अधोऽधस्त्वम् । अपिरूलत्वेन समुच्चयार्थकः । तथा च समन्तादाकाशस्य तुल्यत्वेन भूमेरू/धोभागौ निर्वचनीकर्तुमशक्यौ याभ्यामूर्ध्वाधोलोकानियताः स्युरिति भूमेरूर्वाधोभागाद्यसम्भवादिति भावः ॥ ५३ ॥ मा० टी०-पृथ्वीके गोल होनेसे सर्वत्र अपने २ स्थानको उपर स्थितहुआ समझते हैं' ान्य मध्यस्थित गोलमें नीचाही क्या है ? और उसमें ऊंचाईही कहां है ? ॥ ५३ ॥ नन्वियं भूः समादर्शाकारा प्रत्यक्षा कथं गोलाकारेत्यत आह अल्पकायतया लोकाः स्वात्स्थानात्सर्वतो मुखम् ।। पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम् ॥ ५४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262