Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १२. ]
संस्कृतटीका - भाषाटोकासमेतः ।
( २०३ )
1
सूर्ये मेरुस्थानां मध्याह्नं स्यादिति फलितार्थः । कर्कादिींस्त्रीन्ाशीन्कर्क सिंहकन्यास्तइयर्थः । अतिक्रामन्सन्स सूर्यो दिवसस्य पश्चार्द्धमपरदलम् । एवकारोऽन्ययोगव्यवच्छेदार्थः । पूरयेत् । कन्यान्ते सूर्यमेरुस्थानां सूर्यास्तो भवतीति फलितार्थः । अथ दैत्यानामाह । तुलादीनिति । सुरद्विषां मेरोदक्षिणाग्रवर्तिनां दैत्यानामित्यर्थः । तुलादींस्त्रीन्राशींस्तुलावृश्विकधनुराख्यान् राशीन्मकरकुम्भमीनांस्तद्वत्क्रमेणातिक्रामन् सूर्यः । चकारस्तुलामृगादिक्रमेण पूर्वापरार्धमित्यर्थकः । एवकार उक्तातिरिक्तव्यवच्छेदार्थः । दिनं पूरयतीत्यर्थः । धनुरन्ते सूर्ये दैत्यानां मध्याह्नं मीनान्ते सूर्ये सूर्यास्तो भवतीति फलितार्थः ॥ ४८ ॥ ४९ ॥
भा० टी० - उत्तरमेवासियों के पक्ष में मेषादिमें सूर्य होनेपर सूर्योदय ३ राशितक क्रमसे उत्तरको होता है तब मेरुमें रहनेवाले देवोंके दिनका पूर्वार्द्ध होता है कर्कट आदि उत्तरराशिया म होनेसे परार्द्ध दिवा है | वैसेही तुलादि और मकरादिमें असुरों की पूर्वपरार्द्ध दिशा है || ४८ ॥ ४९ ॥ अथातो देवासुराणामिति प्रश्नस्योत्तरं सिद्धमित्याह
अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् ॥ अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥ ५० ॥
अत उक्तकारणात्तेषां देवदैत्यानामन्योन्यं परस्परं हि निश्चयेन विपर्ययाद्व्यत्यासादिनरात्री स्त इति फलितम् । एतत्फलितार्थस्तु पूर्वे बहुधोक्तः । अथ तत्कथं वा स्यात् । भानोर्भगणपूरणादिति प्रश्नस्याप्युत्तरं फलितमित्याह - अहोरात्रप्रमाणमिति । सूर्यस्य मेषादिद्वादशराशिभोगाद्देवदैत्यानामहोरात्रमानं भवति । चकारः पूर्वार्धेन समुश्च्चयार्थकस्तेन द्वयोः पूर्वोक्तमेकं कारणमिति स्पष्टम् ॥ ५० ॥
मा० टी० - इस लिये परस्पर उनके दिनरात अदलबदलते हैं । सूर्यकें भगणका पूरण कालही अहोरात्र है ॥ ५० ॥
अथ मेषादावुदित इत्यादिश्लोकद्वयस्य फलितार्थं तदुपपत्तिं चाहदिनक्षपार्धमेतेषामयनान्ते विपर्ययात् ॥
उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः ॥ ५१ ॥
एतेषां देवदैत्यानामयनान्तेऽयन सन्धौ विपर्ययाद्यत्यासाद्दिनक्षपार्धं दिनार्धं रात्र्यर्धे च भवति । यत्र देवानां मध्याह्नं रात्र्यर्धं तत्र दैत्यानां क्रमेण रात्र्यर्धमध्याह्ने यत्र च दैत्यानां मध्याह्नरात्र्यर्धे तत्र देवानां क्रमेण रात्र्यर्धमध्याह्ने इति फलितार्थः । अत्र हेतुमाह - उपरीति । देवदैत्या मेरोरुत्तरदक्षिणाग्रवर्तिनोऽन्योन्यमात्मानं स्वमुपरिभाग ऊर्ध्वभागे कल्पयन्त्यंगीकुर्वन्ति । वस्तुतो भूमेर्गोलकत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधोभागयोरनुपपत्तेः । तथाच देवदैत्यापेक्षयोर्ध्वस्थत्वं मन्यमाना दैत्यानधःस्थानङ्गीकुर्वन्ति । दैत्याश्च देवस्थानापेक्षयोर्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्पर्यार्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262