Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १३] संस्कृतटीका-भाषाटीकासमेतः
(२२१) भा० टी०-काठका बना मभीष्ट (इच्छित) पृथ्वीगोल भागे करके माश्चर्यकारी भूगोल बनावै । उस गोलेके दोनों भोर निकला हुआ मेरुदण्ड, माधारकी दो कक्षा और विषुक्की कक्षा बनावै ॥ ३ ॥ ४ ॥ अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपंचकेनाह
भगांशाङ्गुले कार्या दलितस्तित्र एव ताः ॥ स्वाहोराबार्धकर्णैश्च तत्प्रमाणानुमानतः॥५॥ कान्तिविक्षेपभागेश्च दलितर्दक्षिणोत्तरः ॥ स्वः स्वैरपक्रमस्तिस्रो मेषादीनामपक्रमात् ॥ ६ ॥ कक्षाःप्रकल्पयेत्ताश्च कर्कादीनां विपर्ययात् ॥ तत्तिस्रस्तुलादीनां मृगादीनां विलोमतः ॥७॥ याम्यगोलाश्रिताः कार्याः कक्षाधारा द्वयोरपि ॥ याम्योदग्गोउसंस्थानां भानामभिजितस्तथा ॥ ८॥ सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ॥
मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता ॥९॥ भगणशांगुलैः द्वादशराशिभागः षष्टयधिकशतत्रयपरिमितांगुलैः द. लितैः समविभागेन खण्डितैराङ्कितरित्यर्थः । ताः कक्षाः वंशशलाकावृत्तात्मिकास्तिस्त्रः त्रिसख्याकाः । एवकारात्तेदङ्कने वृत्ते च न्यूनाधिकव्यवच्छेदः । शिल्पज्ञेन गोलगणितज्ञेन कार्याः । एताः पूर्व वृत्तप्रमाणेन न कर्या इत्यभिप्रायेणाह-स्वाहोरात्रार्धकर्णैरिति । स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्ध. को व्यासाधं युजाताभिरित्यर्थः । चकारात्कार्याः । स्वस्वाज्यामितेन व्यासार्धन मेषादित्रयाणां वृत्तत्रयं कुर्यादित्यर्थः। ननु स्पष्टाधिकारोक्ताहोरात्रार्धकर्णानयने युक्त्यभावात्तैर्वृत्तिनिर्माणं कुतः कार्यमित्यत आह-तत्प्रमाणानुमानत इति । विषुवत्कशाप्रमाणानुमानादृत्तत्रयं कार्यम् । यथा विषुववृत्तं पूर्ववृत्तसमम् । तथा तदनुरोधेन मषान्त. वृत्तमल्पं तदनुरोधेन वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तमल्पमित्युत्तरोत्तरमल्पव्यासार्धवृत्तम् । तत्त्वहोरात्रवृत्तमिति युज्याव्यासार्द्धन वृत्तनिर्माणं युक्तियुक्तं क्रान्तिज्यावर्गोनात्रिज्यावर्गान्मूलस्वाहोरात्रवृत्तव्यासार्धत्वादिति भावः । वृत्तत्रयं सिद्धं कृत्वा दृष्टान्तगोले निवनाति-क्रांतिविक्षेपभागैरिति । क्रान्तिवृत्तस्य विषुववृत्तप्रदेशाद्विक्षिप्तप्रदेशा यैरंशैः चकारादाधारवृत्तस्थैदलितैः समविभागेन खण्डितैरङ्कितैः दक्षिणोत्तरैर्विषुववृत्तक्रान्तिवृत्तप्रदेशयोर्दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैः स्वकीयैः स्वकीयैः स्वराशितम्ब
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262