Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 228
________________ अध्यायः १३.] संस्कृतटीका-भाषाटीकासमेतः । स्वरूपोक्तेरिति न पौनरुत्त्यम् । अभ्यन्तरे ब्रह्मांडगोलान्तः सूर्यस्याभितः किग्णानां प्रसारः सूर्यकिरणप्रचारदेशस्य परिधिस्तत्तुल्यः। एतेन ब्रह्मांडगोलान्तः परिधिन बाह्य इति सूचितम् ॥ ९० ॥ भा० टी•-ब्रह्माण्डकी कक्षा १८७१२०८०८६४०००००० योजन इसके मध्यमें सूर्यको किरणोंका विस्तार है ।। ९० ॥ अथानिमग्रन्थस्यासङ्गतित्वपरिहारार्थमध्यायसमाप्तिं फक्कियाह इति सूर्यसिद्धान्ते भूगोलाध्यायः ॥ १२॥ इति भिन्नच्छन्दसा प्रारब्धप्रसंगः समाप्त इत्यर्थः। पूर्वखंडे ग्रन्थैकदेशस्याधिकारसञ्ज्ञा कृता । उत्तरखंडे ग्रन्थैकदेशस्याध्यायसंज्ञा भिन्नप्रसंगवशात्कृतेति ध्येयम् । रंगनाथेन रचिते सूर्यसिद्धांतटिप्पणे ॥ उत्तरार्धे समाप्तोऽयं भूगोलाध्यायसंज्ञकः । इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरंगनाथविरचिते गूढार्थप्रकाशके उत्तरखंडे भूगोलाध्यायः पूर्णः ॥ १२ ॥ द्वादश अध्याय समाप्त ॥ १२ ॥ त्रयोदशोऽध्यायः। अथ पुनर्मुनीन् श्रोतन्प्रतिश्लोकाम्यामाह अय गुप्ते शुचौ देशे स्त्रातः शुचिरलंकृतः॥ सम्पूज्य भास्करं भत्त्या ग्रहान् भान्यथ गुह्यकान् ॥१॥ पारम्पर्योपदेशेन ययाज्ञानं गुरोर्मुखात् ॥ आचार्यः शिष्यबोधार्थ सर्व प्रत्यक्षदर्शिवान् ॥२॥ अथशब्दो मङ्गलार्थः । द्वितीयोथशब्दः पूर्वोक्तानान्तर्यार्थकः । गुप्ते रहसि शुचौ पवित्रे देशे स्थान आचार्यः सूर्याशपुरुषो मयासुराध्यापकः । स्नातः कृतस्नानः शुचिः शुद्धमनाः । अलङ्कृतो हस्तकर्णकण्ठादिभूषणभूषितः । निश्चिन्तत्वद्योतकमिदं विशेषणम् । अन्यथा ग्रहादिव्यवहारादिव्याकुलतया मनस्थैर्यानुपपत्तेः । भास्कर श्रीसूर्य स्वोपजीव्यं भक्त्याराध्यत्वेन ज्ञानरूपया सम्पूज्य नमस्कारस्तुतिविषयं कृत्वा ग्रहान् चन्द्रादिग्रहान् । सूर्यस्य पृथगुद्देशः प्राधान्यज्ञानार्थम् । भानि नक्षत्राणि राशींश्च गुह्यकान्यक्षादीक्षुद्रदेवताः सम्पूज्य । समुच्चयार्थकश्चोत्रानुसन्धेयः । गुरोः सूर्यस्य मुखाददनारविन्दात् । पारम्पर्योपदेशेन सूर्येण मुनीन्प्रत्युक्तं मुनिभिः सूर्यांशपुरुषं प्रत्युक्तमिति परम्परया कथनेन । वस्तुतस्तु शिष्यस्याग्रहोत्पादनार्थं ज्ञानेतिगोप्य त्वसूचनमेतदुक्त्या कृतम् । कथमन्यथा सूर्याज्ञप्तांशपुरुषो मयामुरं प्रत्यवददूरस्थमुनीन् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262