________________
अध्यायः १३.] संस्कृतटीका-भाषाटीकासमेतः । स्वरूपोक्तेरिति न पौनरुत्त्यम् । अभ्यन्तरे ब्रह्मांडगोलान्तः सूर्यस्याभितः किग्णानां प्रसारः सूर्यकिरणप्रचारदेशस्य परिधिस्तत्तुल्यः। एतेन ब्रह्मांडगोलान्तः परिधिन बाह्य इति सूचितम् ॥ ९० ॥
भा० टी•-ब्रह्माण्डकी कक्षा १८७१२०८०८६४०००००० योजन इसके मध्यमें सूर्यको किरणोंका विस्तार है ।। ९० ॥ अथानिमग्रन्थस्यासङ्गतित्वपरिहारार्थमध्यायसमाप्तिं फक्कियाह
इति सूर्यसिद्धान्ते भूगोलाध्यायः ॥ १२॥ इति भिन्नच्छन्दसा प्रारब्धप्रसंगः समाप्त इत्यर्थः। पूर्वखंडे ग्रन्थैकदेशस्याधिकारसञ्ज्ञा कृता । उत्तरखंडे ग्रन्थैकदेशस्याध्यायसंज्ञा भिन्नप्रसंगवशात्कृतेति ध्येयम् ।
रंगनाथेन रचिते सूर्यसिद्धांतटिप्पणे ॥
उत्तरार्धे समाप्तोऽयं भूगोलाध्यायसंज्ञकः । इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरंगनाथविरचिते गूढार्थप्रकाशके उत्तरखंडे भूगोलाध्यायः पूर्णः ॥ १२ ॥
द्वादश अध्याय समाप्त ॥ १२ ॥
त्रयोदशोऽध्यायः। अथ पुनर्मुनीन् श्रोतन्प्रतिश्लोकाम्यामाह
अय गुप्ते शुचौ देशे स्त्रातः शुचिरलंकृतः॥ सम्पूज्य भास्करं भत्त्या ग्रहान् भान्यथ गुह्यकान् ॥१॥ पारम्पर्योपदेशेन ययाज्ञानं गुरोर्मुखात् ॥
आचार्यः शिष्यबोधार्थ सर्व प्रत्यक्षदर्शिवान् ॥२॥ अथशब्दो मङ्गलार्थः । द्वितीयोथशब्दः पूर्वोक्तानान्तर्यार्थकः । गुप्ते रहसि शुचौ पवित्रे देशे स्थान आचार्यः सूर्याशपुरुषो मयासुराध्यापकः । स्नातः कृतस्नानः शुचिः शुद्धमनाः । अलङ्कृतो हस्तकर्णकण्ठादिभूषणभूषितः । निश्चिन्तत्वद्योतकमिदं विशेषणम् । अन्यथा ग्रहादिव्यवहारादिव्याकुलतया मनस्थैर्यानुपपत्तेः । भास्कर श्रीसूर्य स्वोपजीव्यं भक्त्याराध्यत्वेन ज्ञानरूपया सम्पूज्य नमस्कारस्तुतिविषयं कृत्वा ग्रहान् चन्द्रादिग्रहान् । सूर्यस्य पृथगुद्देशः प्राधान्यज्ञानार्थम् । भानि नक्षत्राणि राशींश्च गुह्यकान्यक्षादीक्षुद्रदेवताः सम्पूज्य । समुच्चयार्थकश्चोत्रानुसन्धेयः । गुरोः सूर्यस्य मुखाददनारविन्दात् । पारम्पर्योपदेशेन सूर्येण मुनीन्प्रत्युक्तं मुनिभिः सूर्यांशपुरुषं प्रत्युक्तमिति परम्परया कथनेन । वस्तुतस्तु शिष्यस्याग्रहोत्पादनार्थं ज्ञानेतिगोप्य त्वसूचनमेतदुक्त्या कृतम् । कथमन्यथा सूर्याज्ञप्तांशपुरुषो मयामुरं प्रत्यवददूरस्थमुनीन्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com