________________
( २२०) सूर्यसिद्धान्तः
[त्रयोशोऽ-- प्रति कथन उद्यतोऽर्कः स्वांशपुरुषं प्रति कथनेऽनुद्यतः कुतः कारणाभावाच्च । यथा स्वशक्त्या यादृशं ज्ञानं पूर्वोक्तमवगतं शिष्यबोधार्थ मयासुरस्याभ्रमज्ञानोत्पादनार्थ सर्व प्रागध्यायोक्तं प्रत्यक्षदर्शिवान् प्रत्यक्षं दर्शितवानित्यर्थः ॥ १॥२॥ __ भा०टी०-गुप्त, पवित्रतायुक्त स्थानमें सजकर बैठा हुआ प्रत्यक्षदर्शी आचार्य रवि, ग्रह, नक्षत्र और गुह्यक लोगोंका पूजन करनक पाछ शिष्यपरम्पराकरके जो गुरुमुखसे सुनाथा वह सब शिष्यको समझानेके लिये ॥ १ ॥ २ ॥
कथं दर्शितवानिति मयासुर प्रत्युक्तसूर्याशपुरुषवचनस्यानुवादे सूर्याशपुरुषो मयासु । रं प्रति गोलबन्धोद्देशं तदुपक्रमं च श्लोकाभ्यामाह
भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम् ॥ अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् ॥३॥ दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम् ॥
आधारकक्षाद्वितयं कक्षा वेषुवती तया ॥४॥ भगोलस्य भूगोलादभितः संस्थितस्य नक्षत्राधिष्ठितगोलस्य प्रागध्यायोक्तार्थस्य रचनां स्थितिज्ञानार्थ दृष्टान्तात्मकगोलस्य निर्मितं सुधीर्गणको गोलशिल्पज्ञः कुर्यात् । ननु त्वदुक्तेन सर्व ज्ञानं भवतीति दृष्टान्तगोलनिबन्धनं व्यर्थमेवेत्यत आह । आश्चर्यकारिणीमिति । उक्तप्रतीत्युदूताद्भुतबुद्धिजनयित्री तथाचोक्तेन स्वाधस्तिर्यग्भागयोर्लोकावस्थानस्य तद्भागस्थभगोलप्रदेशस्य च भूमेनिराधारत्वादेश्च ज्ञानं मनास सप्रतीतिकं न भवत्यतो दृष्टान्तगाले निश्चयसम्भवात्तन्निबन्धनमावश्यकमिति भावः। कथं रचनां कुर्यादित्यत आह-अभीष्टमिति । भुवो गोलमभीष्टं स्वेच्छाकल्पितपरिधिप्रमाणकं दारवं काष्ठघटितं सच्छिद्रं कारयित्वा काष्ठशिल्पज्ञद्वारा कृत्वेत्यर्थः । मेरोरनुकल्परूपं दण्डकाष्ठं तन्मध्यगं तस्य काष्ठघटितभगोलस्य मध्ये च्छिद्रमध्ये शिथिलतथा स्थितम् । उभयत्र भूगोलस्थव्यासप्रमाणच्छिद्रस्याग्राभ्यां बहिरित्यर्थः । विनिर्गतमेकानादन्यतरामावशिष्टदण्डप्रदेशतुल्यं निःसृतम् । उभयाग्राभ्यां तुल्यौ दण्डदिशौ यथा स्यातां तथा कुर्यादित्यर्थः । भगोलनिबन्धनार्थमाधारवृत्तरयमाह-आधारकक्षाद्वितयमिति । भगोलनिबन्धनार्थमादावाश्रयार्थ वृत्तयोर्द्धितय. मूधिस्तिर्यगवस्थानक्रमेणैकमेकमेवे द्वयमित्यर्थः । भूगोलादुभयतस्तुल्यान्तरेण दः ण्डप्रदेशयोः प्रोतमेकं वृत्तं कुर्यात् । तत्तुल्यं वृत्तमपरंतदर्धच्छेदेन दण्डप्रोतं कुर्यादिति सिद्धोऽर्थः । एतत्तद्वयव्यतिरेकेण भूगोलादभितो भगोलनिबन्धनानुपपत्तेः । भगोलनिवन्धनारंभमाह-कक्षेति । वैषुवती विषुवत्संबन्धिनी कक्षा वृत्तपरिधिर्विषुववृत्तमित्यर्थः । तथाधारवृत्तद्वयस्यार्धच्छेदेन भगोलमध्यवृत्तानुकल्पेन गणकेन निबदमित्यर्थः ॥ ३ ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com