Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 217
________________ (२०८) सूर्यसिद्धान्तः [ द्वादशोऽरात्रिदक्षिणभागे तादृशे षष्टिमितं दिनामति । अत्रोपपत्तिः । परमक्रान्तियोजनानि भूवृत्तचतुर्थाशयोजनभ्यो हीनानि। निरक्षदेशात्तन्मितयोजनान्तरितो यो दक्षिणो. त्तरदेशस्तस्मान्मेरोदक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्तरितम् । अतस्तत्र लं. बांशाश्चतुर्विंशतिः पलांशाश्च षट्षष्टिरिति । तदेशे क्रांतिवृत्तानुकारं क्षितिजमित्यय. नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरेन्तरालरूपं चरमत उक्तरीत्या दिनाथू राज्यधैं वोक्तरीत्या यथायोग्यं त्रिंशत्तद्विगुणं पाष्टघटमितत. न्मानं गणितरीत्योपपन्नम् "युक्तं चैतत् । अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वादूद्विधा संलग्नत्वाभावात्मवहभ्रमितसूर्यपरिवर्तपूर्तिः षष्टिघटीभिर्दर्शन मदर्शन यथायोग्यं तद्गोलस्थित्या प्रत्यक्षसिद्धमेति ॥ ६० ॥ ६१ ॥ मा० टी०-सूर्यके परमापक्रमके अनुसार योजन, भूवृत्त योजन पादसे अलग करनेपर जो योजन रहते हैं निरक्ष देशसे तितने दूर मयनान्त दिनको देवासुर विभागमें विपरीतरूपसे दिनरात ६० धटीका होता है ॥ ६० ॥ ६१॥ अथोक्तदिनरात्रिमानगणितं तदवाधिदेशपर्यन्तं दक्षिणोत्तरभागयोर्नाग्र इत्याह तदन्तरेऽपि षष्टयन्ते क्षयवृद्धी अहर्निशोः ॥ परतो विपरीतोऽयं भगोलः परिवर्तते ॥ ६२॥ तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तरालदक्षिणोत्तरविभागदेशे षष्टयन्ते षष्टिघटीमध्ये क्षयवृद्धी अपचयोपचयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः । परतोऽवधिदेशादाग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितो मूर्तो गोलो विपरीतोऽवधिदेशान्तर्गतदेशसम्बन्धी गणितविरुद्धः परिवर्त्तते भ्रमति तत्रोक्तरीत्या दिनराज्योवृद्धिक्षयौ न भवत इत्यर्थः । त्रिज्याधिकाराचरानयनानुपपत्तेः । चरस्वरूपासम्भवाच ॥ ६२ ॥ मा० टी०-दोनों दिशामें उस दूरताके मध्य ६० दण्डके मध्यमें दिन या रात घटता बढता है । तिससे ऊपर दोनों स्थानमें विपरीत भावसे भूगोल पारभ्रमण करता है ॥ ६२ । अथ विपरीतगोलास्थिति श्लोकाभ्यां प्रदर्शयति उने भूवृत्तपादे तु द्विज्यापक्रमयोजनः॥ धनुर्मूगस्थः सविता देवभागेन दृश्यते ॥ ६३ ॥ तथा च सुरभागे तु मिथुने कर्कटे स्थितः॥ नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् ॥ ६॥ इराशिज़्याया ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थाशे होने कृते सति । तुकारान्निरक्षेदेशाद्यद्योजनांतरिते देशे देवभाग उत्तरभागे धनुर्मकरराशिस्थो कस्तद्देशवासिभिर्न दृश्यते । धनुर्मकरस्थे । तेषां रात्रिः सदा स्यादित्यर्थः । असुर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262