Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 224
________________ ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (२१५) त्तरम् । एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिकाविति कक्षोर्ध्वक्रमे वारकमेणैकांतरितत्वात्कक्षोलक्रमेण मासेश्वर उत्तरोत्तरमित्युपपन्नं मन्दादित्यादिश्लोकद्धयम् ॥ ७८ ॥ ७९ ॥ मा० टी०-शनिसे नीचेके वृत्तमें गयाहुआ क्रमशः चौथा ग्रह दिनका स्वामी भोर तीसरा ग्रह वर्षाधिपती है ।। ७८ ॥ चंद्रमासे क्रमानुसार ऊपर गयेहुए मासके स्वामी हैं । शानिसे क्रमानुसार नीचेको गयेहुए ग्रह होराधिपति हैं ।। (होरा =२दण्ड ) ॥ ७९ ॥ अथ ग्रहक्षकक्षाः किंमात्राः' इति प्रश्नस्योत्तरं विवक्षुः प्रथमं नक्षत्राणां कक्षामानमाह-- भवद्भकक्षा तिग्मांशोभ्रमणं षष्टिताडितम् ।। सर्वोपरिष्टाद्भवति योजनेस्तैर्भमण्डलम् ॥ ८० ॥ सूयस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम् ‘खखार्थेकसुराणवाः' इति वक्ष्यमाणं षष्टया गुणितं सन्नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात् । तैर्नक्षत्रकक्षामितेर्योजन मण्डलं नक्षत्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्ट्वाचन्द्रादिसप्तग्रहेभ्यः उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति । अत्रोपपत्तिः । नक्षत्राणां गत्यभावाच्छनेरप्यत्यूर्व नक्षत्रमण्डलं तत्र सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानुपातान्यथानुपपत्तितया 'कल्प्यो हरो रूपमहारराशेः' इतीच्छाहासे फलवृद्धयपेक्षितत्वाव्यस्तानुपातो लाघवात्सूर्यगतिः पष्टिकलामिता च भगवता कृता । नक्षत्रगतेरभावाचेति षष्टिताडितमित्युपपन्नम् ॥ ८० ॥ __ भा०टी०-सूर्यकी कक्षाको ६० से गुणा करनेपर भकक्षा होती है । वह सबके उपर भ्रमण करती है ।। ८० ॥ अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम् । कियती तत्करप्राप्तिः' इति प्रश्न स्योत्तरमाह कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया ॥ आकाशकक्षा सा ज्ञेया करव्याप्तितया खेः ॥ ८१ ॥ कल्पोक्तचन्द्रभगणाः । “एते सहस्रगुणिताः कल्पे स्युर्भगणादयः " इत्युक्त्या युगचन्द्रभगणाः सहस्रगुणिताः कल्पचन्द्रभगणा इत्यर्थः । चन्द्रकक्षया 'खत्रयाब्धिद्विदहना' इति वक्ष्यमाणया गुणिता सा तन्मिताकाशकक्षा परिधिरूपा ज्ञेया। धीम तेतिशेषः । नन्वनन्ताकाशस्य कथं परिधिरित्यत आह-करव्याप्तिरिति । सूर्यस्य किरणप्रचारस्तथाकाशकक्षापरिमित इत्यर्थः । तथाच यद्देशावच्छेदेन सूर्यकिरणप्रचारस्तद्देशावछिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः । अत्रोपपत्तिः । समनंतरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यादित्युक्ते भगणकक्षाघात खकक्षा सिद्धा। अतश्चन्द्रभगणकक्षयो_तः खकक्षातुल्य एवेति दिक् ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262