________________
ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (२१५) त्तरम् । एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिकाविति कक्षोर्ध्वक्रमे वारकमेणैकांतरितत्वात्कक्षोलक्रमेण मासेश्वर उत्तरोत्तरमित्युपपन्नं मन्दादित्यादिश्लोकद्धयम् ॥ ७८ ॥ ७९ ॥
मा० टी०-शनिसे नीचेके वृत्तमें गयाहुआ क्रमशः चौथा ग्रह दिनका स्वामी भोर तीसरा ग्रह वर्षाधिपती है ।। ७८ ॥ चंद्रमासे क्रमानुसार ऊपर गयेहुए मासके स्वामी हैं । शानिसे क्रमानुसार नीचेको गयेहुए ग्रह होराधिपति हैं ।। (होरा =२दण्ड ) ॥ ७९ ॥ अथ ग्रहक्षकक्षाः किंमात्राः' इति प्रश्नस्योत्तरं विवक्षुः प्रथमं नक्षत्राणां कक्षामानमाह--
भवद्भकक्षा तिग्मांशोभ्रमणं षष्टिताडितम् ।। सर्वोपरिष्टाद्भवति योजनेस्तैर्भमण्डलम् ॥ ८० ॥ सूयस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम् ‘खखार्थेकसुराणवाः' इति वक्ष्यमाणं षष्टया गुणितं सन्नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात् । तैर्नक्षत्रकक्षामितेर्योजन मण्डलं नक्षत्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्ट्वाचन्द्रादिसप्तग्रहेभ्यः उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति । अत्रोपपत्तिः । नक्षत्राणां गत्यभावाच्छनेरप्यत्यूर्व नक्षत्रमण्डलं तत्र सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानुपातान्यथानुपपत्तितया 'कल्प्यो हरो रूपमहारराशेः' इतीच्छाहासे फलवृद्धयपेक्षितत्वाव्यस्तानुपातो लाघवात्सूर्यगतिः पष्टिकलामिता च भगवता कृता । नक्षत्रगतेरभावाचेति षष्टिताडितमित्युपपन्नम् ॥ ८० ॥ __ भा०टी०-सूर्यकी कक्षाको ६० से गुणा करनेपर भकक्षा होती है । वह सबके उपर भ्रमण करती है ।। ८० ॥
अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम् । कियती तत्करप्राप्तिः' इति प्रश्न स्योत्तरमाह
कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया ॥
आकाशकक्षा सा ज्ञेया करव्याप्तितया खेः ॥ ८१ ॥ कल्पोक्तचन्द्रभगणाः । “एते सहस्रगुणिताः कल्पे स्युर्भगणादयः " इत्युक्त्या युगचन्द्रभगणाः सहस्रगुणिताः कल्पचन्द्रभगणा इत्यर्थः । चन्द्रकक्षया 'खत्रयाब्धिद्विदहना' इति वक्ष्यमाणया गुणिता सा तन्मिताकाशकक्षा परिधिरूपा ज्ञेया। धीम तेतिशेषः । नन्वनन्ताकाशस्य कथं परिधिरित्यत आह-करव्याप्तिरिति । सूर्यस्य किरणप्रचारस्तथाकाशकक्षापरिमित इत्यर्थः । तथाच यद्देशावच्छेदेन सूर्यकिरणप्रचारस्तद्देशावछिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः । अत्रोपपत्तिः । समनंतरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यादित्युक्ते भगणकक्षाघात खकक्षा सिद्धा। अतश्चन्द्रभगणकक्षयो_तः खकक्षातुल्य एवेति दिक् ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com