________________
(२१६)
सूर्यसिद्धान्तः
[ द्वादशोऽ
भा० टी० - एक कल्पमें चन्द्रमाके भगण चंद्रकक्षा से गुणा किये जाय तो आकाशऋक्षा होती है, तिनी दूरतक सूर्यकी किरणें व्याप्त हैं ॥ ८१ ॥ अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं चाह - सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् ॥ कुवासरौर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता ॥ ८२ ॥
सार्ककरव्याप्तिरूपाकाशकक्षा यत्कल्पभगणैर्यस्य कल्पभगणैर्भक्ता फलं तस्य कक्षा भवेत् । एवकारो निश्चयार्थे । खकक्षाकल्पर विसावनैर्भक्ताप्राप्तं फलं सर्वेषामुक्तभगणसम्बन्धिनां ग्रहादीनामहो दिवसस्य दिनसम्बन्धिनीत्यर्थः । प्राग्गतिर्योजनात्मिका कथिता । अत्रोपपत्तिः । कल्पभगणकक्षाघातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा - स्यादेव | कल्पे खकक्षामितयोजनानि ग्रहः कामतीति कल्पर विसावनादिनैराकाशकक्षामित योजनानि तदैकर विसावनदिनेन कानीत्यनुपातेन पूर्वगतियजनात्मिका प्रत्यहं तुल्येत्युपपन्नम् ॥ ८२ ॥
मा०टी० - उस कक्षाको ग्रहोंके कल्प भगणसे भाग कियाजाय तो स्वकक्षा होगी । कक्षाको कुदिन से भाग कियाजाय तो सबकी प्रात्यहिक प्राकूगति होगी ॥ ८२ ॥ अथ योजनात्मकगतेः कलात्मकगतिं स्वीयामाह -
भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसगुणा ||
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः ॥ ८३ ॥ गतियोजनोत्पन्ना या संख्या सा संख्या चन्द्रस्य भ्रमणसगुणा कक्षया गुणिता स्वकक्षयाप्ताभिमतग्रहस्य कक्षया भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता । तुकारात् फलं तस्याभिमतग्रहस्य गतिकला भवन्ति । अत्रोपपत्तिः । कक्षायोजनैश्चककलास्तदा गतियोजनैः : का इत्यनुपातेन गतिकलाः । तत्रापि ' चन्द्रकक्षा पंचदशमक्ताश्चक्रकला:' इति चत्रकलास्वरूपं धृतमित्युपपन्नम् ॥ ८३ ॥
भा०टी० - मुक्ति योजन चन्द्र कक्षा से गुणकरके स्वकक्षासे मागकरने पर गतिकला होगी ॥ ८३ ॥
अथ किमुत्सेधा इति प्रश्नस्योत्तरमाह
कक्षा भूकर्णगुणिता महीमण्डलभाजिता ॥
तत्कर्णा भूमिकणोंना ग्रहौच्च्यं स्वं दलीकृताः ॥ ८४ ॥
ग्रहाणां योजनात्मिका कक्षा भूकर्णे प्रयोजनानि शतान्यष्टौ भूकर्णो द्विगुणानीत्युक्तभूव्यासेन षोडशशतेन गुणिता भूपरिधिना तदवगतेन भक्ता फलं तस्याः कक्षायाः कर्णाव्यासा भवन्ति । एते भूव्यासेन हीना अधिताः सन्तः स्वगृहीतव्यास सम्बन्धिग्रहौच्च्यं ग्रहस्योच्चता भूमेः सकाशाद्भवति । अत्रोपपत्तिः । भूपरिधिना भूव्यासस्तदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com