________________
ध्यायः १२.] संस्कृतटोका-भाषाटोकासमेतः। (२१७) कक्षायोजनैः क इत्यनुपातेन कक्षाध्यासास्तेऽर्धिताः कक्षाव्यासाधं भूगर्भकक्षापरिधिप्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थ भूव्यासार्धन हीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासाभव्यासोना अर्धिताः कृताः । उभयथा समत्वात् । कक्षौच्च्यमेव ग्रहीच्च्यं ग्रहस्य तत्राधिष्ठानादिति । एतेन सिद्धग्रहोंच्च्यभ्यः परस्परान्तरगतज्ञानं सुगममिति । किमन्तरा इति प्रश्नस्योत्तरं स्वतःसिद्धमेवोत दिक् ॥ ८४ ॥
भा०टी०-स्वकक्षाको भूकर्णले गुणकरके भवत्तद्वारा भागकरनेपर स्वकक्षाकर्ण होगा तिससे भूकर्णको वियोग करके दोसे भाग करनेपर पृथ्वीसे दूरताका निर्णय हो जायगा ।। ८४॥ अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षुः प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां चाह
खत्रयान्धिद्विदहनाः कक्षा तु हिमदीधितः ।।
ज्ञशीघ्रस्याङ्कखदित्रिकृतशून्येन्दवस्ततः ।। ८५॥ चन्द्रस्य कक्षा सहस्रगुणितसिद्धरामाः । तुकारादागमप्रामाण्येनांगीकार्या । अन्यथान्योन्याश्रयापत्तेस्ततश्चंद्रादूर्ध्व बुधशीघोच्चस्य कक्षा नखदन्तवेददिशः । यद्यपि बुधशीघ्रोचमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथापि बुधशीघ्रोच्चभगणानीतकक्षायां गत्यनुरोधेन चन्द्रोर्ध्वगायां बुधो भ्रमति 'पूर्व सूर्यशुक्रन्दुजेन्दवः' इति क्रमोक्तेः । अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवास्थितौ मण्डलभंगापत्तेरिति सूचनार्थमुक्ता ॥ ८५॥ भा०टी०-चं० ३२४०००, बु० शी० चन्द्रसे १०४३२०९, ।। ८५ ॥ अथ शुक्रशीघ्रोचस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां चाह
शुकशीघ्रस्य सप्तागिरसाब्धिरसषड्यमाः॥
ततोऽर्कबुधशुक्राणां खखार्थकसुराणवाः॥८६॥ तदू_ शुक्रशीघ्रोचस्य कक्षाद्रिव्यंगवेदषड्रसपक्षाः शुक्रावस्थानसूचनार्थमुक्ताः । ततस्तदूर्व सूर्यबुधशुक्राणां भगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धयः । यद्यपि बुधशुक्रयोः सूर्याधःस्थत्वात्केवलं सूर्यकक्षैव वक्तुमुचिता तथापि कक्षयैको भगणस्तदा कल्परविसावनदिनैः खकक्षामितयोजनानि तदाहर्गणेन कानीत्यनुपातागतयोजनैः कइत्यनुपातेन सूर्यबुधशुक्राणामभिन्नत्वसिद्धयर्थ बुधशुक्रयोरप्युक्ता । अन्यथा समत्वा' नुपपत्तारीत ॥८६॥ भा०टी०-शु०-शी०बुशी से २६६४६३७, | सूर्य, बु, शु, मध्य ४३३१५०० ।।८।। अथ भौमस्य कक्षां चन्द्रमंदोच्चस्य कक्षां चाह
कुजस्याप्यंकशून्याङ्कपड्वदेकभुजंगमाः ॥ चन्द्रोचस्य कृताष्टान्धिवसुदिपष्टवह्नयः॥ ८७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com