________________
(२१४) सूर्यसिद्धान्तः
[ द्वादशोऽस्वल्पयातो बहून्भुक्ते भगणाञ्छीतदीधितिः ॥
महत्या कक्षया गच्छंस्ततः स्वल्पं शनैश्वरः ॥ ७७॥ स्वल्पप्रमाणया कक्षया । तुकारादतिकामंश्चंद्रो वहुप्रमाणान्भगणान्वहुवारं द्वादश. राशीनित्यर्थः । भुंक्ते. । महाप्रमाणया कक्षया गच्छञ्छनिस्ततश्चन्द्रात्स्वल्पं भगणमल्पप्रमाणान्भगणान् । जात्यभिप्रायेणैकवचनम् । अल्पवारं द्वादशराशीन्मुंक्ते । अतएव शनैश्चर इति ॥ ७७ ॥
भा० टी०-एक समयके मध्यमें स्वल्प कक्षागत चंद्रमा बहुतसे भगण भोगताहै; परन्तु शनिकी कक्षाके महत्त्ववासे भगण मल्प होते हैं ।। ७७ ।। अथ 'दिनाब्दमासहोराणामधिपा न समाः कुतः' इति प्रश्नस्योत्तरं श्लोकाभ्यामाह
मंदादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः॥ वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्तिताः ॥ ७८॥ ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः॥
होरेशाः सूर्यतनयादधोऽधःक्रमतस्तथा ॥ ७९ ॥ शनेः सकाशादधः कक्षाक्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतयो वारेश्वरा भ. वन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत्क्रमः । वर्षस्य षष्टयधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्मन्दादधःक्रमेण तृतीयसंख्याका ग्रहा उक्ताः । चः समुच्चयार्थे । तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरुसूर्यवुधा इति । चन्द्रात्सकाशादूर्ध्वकक्षाक्रमेण ग्रहा मासानां त्रिंशदिनात्मकानां स्वामिनः कथिताः । तत्क्रमश्च चन्द्रवुधशुक्ररविं भौमगुरुशनय इति । शनेः सकाशादधः क्रमशः । अधः क्रमेण होरेशाः 'होरोति लग्नं भगणस्य चार्धम्' इति पञ्चदशभागात्मकहाराणां दिने द्वादशरात्रौ द्वादशेत्यहोरात्रे चतुविशतिहोराणामित्यर्थः । होरा सार्धा द्विनाडिका' इति षष्टिघटिकात्मकेऽहोरात्रे । चतुविशातिहोराणामित्यन्ये । स्वामिनस्तथा मासेश्वरखदव्यवहिताः कथिताः । यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति । अत्र शनेः सर्वोर्ध्वस्थत्वाचन्द्रस्य सर्वाधः स्थत्वात्ताभ्यामध ऊर्यक्रमः ऋमेणोक्तः।अन्यग्रहस्यावधित्वाभ्युपगमे विनिगमनाविरहा. पत्तेः । नतु शनेराद्यावधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्टयादौ मासेशत्वं पूर्वखण्डोक्तानीततदीशैविरोधापत्तेः । अत्रोपपत्तिः । होरारूपलग्नानां क्रान्तिवृत्तेऽधःक्रमेण मेषादीनां सम्भवादू कक्षातोऽधःक्रमेण होरेशत्वं युक्तम् । एवमहोरात्रे चतुर्विंशतिहोराः । सप्ततष्टास्त्रयोहोरेशा गताः । चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथमहोरेशत्वाद्भद्वितीयदिनेशः । एवमुत्तरत्रापि । एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा इति पूर्ववर्षशादग्रिमवर्षशोऽधः कक्षाक्रमेण तृतीय उत्तरो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com