________________
ध्यायः १२] संस्कृतटीका-भाषार्टीकासमेतः। (२१३) "विधूप्रभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति । पश्यन्ति तेऽक निजमस्तकोर्चेदर्स यतोऽस्माद्यदलं तदेषाम् । भार्धान्तरत्वान्न विधोरधःस्थं तस्मानिशीथः खलु पौर्णमास्याम् । कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ॥" इतिभास्कराचार्येण विस्तार्योक्तं संगच्छते ॥ ७४ ॥ __ भा०टी०- देवता और असुरलोग जैसे एकवार उदय हुए सूर्यको ६ मासपर्यन्त देखते हैं। पितृगण चन्द्रस्थित होनेका कारण पक्षभरतक और पृथ्वीके आदमी सारे दिन सूर्यको देखते हैं ॥ ७४ ।।
अथ प्रसंगादूर्ध्वस्थस्याल्पभगणानामधः स्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थ प्रथमं कक्षाया अर्ध्वाधाक्रमेण महदल्पत्वं तत्रस्थभागानां महदल्पप्रदेशत्वं चाह
उपरिस्थस्य महती कक्षाल्पाधःस्थितस्य च ॥
महत्या कक्षया भागा माहन्तोऽल्पास्तथाल्पया ॥ ७९ ॥ ऊर्ध्वस्थग्रहस्य कक्षा वायुवृत्तमार्गरूपा महती महापरिधिप्रमाणा । अधःस्थस्य ग्रहस्य कक्षाल्पाल्पपरिधिप्रमाणा । चो निश्चयार्थ । लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चान्तर्गतलघुकक्षात्वेनोर्ध्वाधास्थयोर्महदल्पपरिधिके कक्षे । अन्यथोक्तस्वरूपानुपपत्तेः । एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकमागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थलात्मका लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मकाः क्रमेणैकैकभागप्रमाणमाधिकाल्पं न समं चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम् ॥ ७५ ॥
भा० टी०-उपर स्थित कक्षा बडी है नीचे स्थित हुई कक्षा अल्प है, तिसकारण से कक्षा गत अंश बृहत् और मल्प होते हैं ॥ ७५ ।। अथोर्ध्वाधः क्रमेण ग्रहभगणभोगकालयोर्महदल्पत्वमाह
कालेनाल्पेन भगणं भुङ्क्तेल्पभ्रमणाश्रितः ॥
ग्रहः कालेन महतामण्डले महति भ्रमन् ॥ ७६ ।। अल्पभ्रमणाश्रितः । अल्पभ्रमणं परिधिमानं यस्याः साल्पभ्रमणाधःस्थकक्षा तत्स्थो ग्रहोऽल्पेन समयेन भगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते । महति मण्डले । उर्ध्वस्थकक्षायामित्यर्थः । भ्रमन्गच्छन्महता बहुना समयेन द्वादशराशीन्भुंके । वक्ष्यमाणयोजनगतेरभिन्नत्वात् ॥ ७६ ॥
भा०टी०-अल्पकक्षाश्रित ग्रह अल्पकाठमें भगणको भोग करता है । मौर महत्कक्षास्थित ग्रह दीर्घकालमें भोग करता है ॥ ७६ ॥
अथात एवोर्ध्वाधः क्रमेण ग्रहयोर्भगणास्तुल्यकालेल्पा बहवो भवन्तीति सोदाहरणमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com