________________
(२१२) सूर्यसिद्धान्तः
[ द्वादशोऽमेरुं मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतो गच्छतः पुरुषस्य ध्रुवोन्नतिः क्रमेणोत्तरदक्षिणयोर्भुवयोरौच्च्यं भवति । भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभागवृत्तस्य नतिः क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति । निरक्षदेशाभिमुखं गच्छतः पुरुषस्य नतोन्नते पूर्वोक्ते व्यस्ते भवतः । उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वोक्तस्थानापेक्षयोत्तरध्रुवस्य नतत्वं पूर्वस्थानापेक्षया भचक्रस्योन्नतत्वम् । एवं दक्षिणभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वं भचक्रस्योन्नतत्वमिति ७२
मा०टी०-मेरुके सामने गमन करनेसे क्रमानुसार ध्रुव की उन्नति भौर भचक्रकी नति दिखाई देती है और निरक्षके सामने गमन करनेसे विपरीत दिखाई देताहै अर्थात् वकी नति भोर मचक्रकी उन्नति दिखाई देती है ॥ ७२ ॥
अथ कुत एवमित्यतः कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः' इति प्रश्नस्योचरं भचक्रभ्रमणवस्तुस्थितिमाह
भचकं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलः॥
पर्यत्यजस्रं तनदा ग्रहकक्षा यथाक्रमम् ।। ७३ ॥ भचक्र नक्षत्राधिष्ठितमूर्तगोलरूपं ध्रुवयोदक्षिणोत्तरस्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोलाकारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थानस्थैराक्षिप्तं स्वस्वस्थानाभिघातं प्राप्तं सदजस्रं निरन्तरं पर्येति । पश्चिमाभिमुखं भ्रमतीत्यर्थः । ननु नक्षत्रचक्र वायुना भ्रमति । ग्रहास्त्वधोऽधास्था सम्बन्धाभावात्कथं भ्रमन्तीत्यत आह-तन्नद्धा इति । ग्रहाणां शन्यादीनां कक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गता. काशस्था यथाक्रममधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे वायुसूत्रेण निबद्धाः अतो भचक्रेण सह भ्रमति । तत्रस्था ग्रहा अपि भ्रमन्तीति किं चित्रम् । तथा च प्रव. हवायुगोलमध्यस्थविषुववृत्तपूर्वापरनिरक्षदेशे ध्रुवयोः क्षितिजस्थत्वाद्भचक्रस्य मस्तको. परि भ्रमणाच मेर्वग्राभिमुखं प्रयातुर्भुव उच्चो भवति । तत आसन्नत्वाद्भचक्रं नतं भवति । ततो दूरत्वादिति सर्व युक्तम् ॥ ७३ ॥
मा० टी०-दो ध्रुवम धाहुआ भचक्र प्रवहवायुसे माक्षिप्त होकर सदा घूमता है और क्रमानुसार तिसमें बद्ध ग्रहकक्षा, मचक्रके साथ चलती रहती है ॥ ७३ ॥ अथ पित्र्यं मासेन भवतीति प्रश्नयोरुत्तरमाह
सकृदुद्तमन्दाध पश्यन्त्यकं सुरासुराः ॥ . पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ॥ ७४॥
यथा देवदैत्या एकवारमुदितं सूर्य सौरवर्षापर्यन्तं पश्यन्ति । तथा पितरश्चन्द्रबिम्बगोलास्थिताः । पक्षं पंचदशतिथिपर्यन्तं पश्यन्ति । नरा भूमौ स्वदिनपर्यन्तमर्क पश्यन्यतः 'पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम् ' इति सर्व युक्तमतएव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com