________________
ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (२११) अथ कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्योत्तरं श्लोकाभ्यामाह
भद्राश्वोपरिगः कुर्याद्रारते तूदयं रविः॥ राज्यध केतुमाले तु कुरावस्तमयं तदा ॥ ७० ॥ भारतादिषु वर्षेषु तदेव परिभ्रमन् ॥
मध्योदयाराव्यस्तकालात्कुर्यात्प्रदक्षिणम् ॥ ७१॥ भद्राश्ववर्षोपरिगतः सूर्यो भरतवर्षे स्वोदयं कुर्यात् । तुकारात् भद्राश्चवर्षे मध्याहू कुर्यात् । तदा तस्मिन्काले केतुमालवर्षेऽर्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात् । तुकारादुक्तवर्षयोरन्तरले दिनस्य गतं शेषं वा गत्रेश्च तद्यथायोग्यं कुर्यादित्यर्थः । अतिस्थूलदेशग्रहणे यथाश्रुतमिदं भव्यं किश्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्ध रराण्यन्तर्गतानि तच्छन्दवाच्यानि ज्ञेयानि । “लङ्कापुरेऽस्य यदोदयः स्यात्तदा दिनार्धे यमकोटिपुर्याम् । अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिपलं तदेव ॥" इतिभास्कराचार्योक्तभूगोल उक्तंनगराणां भूपरिधिचतुर्थीशान्तरत्वात्संगच्छते । अथ भारतादिषु त्रिषु वर्षसज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्भद्राश्चवर्षोपरिगवत् । एक्कारातन्यूनाधिकव्यवच्छेदः। परिभ्रमन्परिभ्रमण स्वस्वाभिमतस्थानोपरि स्थिति कुर्वन् सूर्यः प्रदक्षिणं यथा स्यात्तथा सव्यक्रमेण स्वस्थानादिक्रमेणेति यावत् । उक्तचतुर्वर्षेषु मध्योदयार्धराज्यस्तकालान्मध्याह्नोदयार्धराज्यस्तसज्ञान्कालान्कुर्यात । एतदुक्तं भवति । भारतवर्षोपरिगतेऽर्के भारतकेतुमालकुरुभद्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः । केतुमालवर्षोपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषु क्रमेण मध्याह्नसूर्योदयात्ररात्रास्ताः । कुरुवर्षोपरि गतेऽर्के कुरुभद्राश्वभारतकेतुमालवर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ता भवन्तीति ॥ ७० ॥७१॥
भा०टी०-जिस समय भद्राश्वमें मस्तकपर सूर्य होता है, तब भारतमें लंकोदयगत होता है, केतुमालमें राम्यई (आधीरात) और कुरुवर्षमें मस्त प्रायः होता है । भारतादिवर्षमें वैसेही सूर्य भ्रमणके द्वारा मध्य, उदय, आधीरात, मस्तकाल आदिकरके प्रदक्षिण करते ॥ ७० ॥ ७१ ॥ ननु ग्रहाणां गतिसद्भावात्प्रतिदेशं याम्योत्तरयोग्र्हगमनं प्रतिक्षणं च विलक्षणं भासताम् । परंतु नक्षत्राणां गत्यभावात्प्रतिक्षणभ्रमेणैकवावस्थानाभावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न । एवं ध्रुवयोः परिभ्रमस्याप्यभावात्सदा सर्वत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह
ध्रुवोन्नतिर्भचकस्य नतिमरुं प्रयास्यतः ॥ निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ।। ७२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com