________________
(२१०) सूर्यसिद्धान्तः
[ द्वादशोऽमेरावुत्तराग्रावस्थिता देवा मेषादिचक्रार्धे मेषादिराशिषट्केऽवस्थितमकै सकृदेकवारम् । एवकारादनेकवारनिरासनिश्चयः ।। उदितमदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति । असुरा मेरुदक्षिणाग्रस्था दैत्याः । चः देवैः समुच्चयार्थः । तुलादिराशिषट्कस्थं तद्वत् सकृदुदितं निरंतरं पश्यन्ति ॥ ६७ ॥
मा० टी०-मरुस्थित देवतालोग मेषादिचक्रार्द्धगत सूर्यको सदा देखते हैं और असुरलोग जुलादिगत सूर्यको तैसाही देखते हैं ॥ ६७ ॥ अथ निरक्षदेशादयनसन्धौ कियद्भिर्योजनैरू_मर्को भवति तदाह
भूमण्डलात्पञ्चदशे भागे देवेऽयवासुरे ॥
उपरिष्टाजत्यर्कः सौम्ययाम्यायनान्तगः ॥ ६८॥ देव उत्तरभागे। अथवासुरे दक्षिणभागे । निरक्षदेशाद्भूपरिधेः पंचदशे भागे तत्फलयोजनांतरिते देशे क्रमेण सौम्ययाम्यायनान्तगउत्तरायणांतदक्षिणायनांतस्थितोऽर्क उपरिष्टादूर्ध्व व्रजति परिभ्रमति । यथा गोलसंधी निरक्षदेशे तथात्र भागद्वय इति फलितार्थः । अत्रोपपत्तिः । अयनांतस्थे परमकांतिश्चतुर्विंशत्यंशास्तद्योजनानि । 'भूवृत्तं क्रांतिभागघ्नं भगणांशविभाजितम् ' इत्यत्र चतुर्विंशतिमितगुणभगणांशमितहरौ गुणेनापवर्त्य हारस्थाने पंचदशेति भूमंडलात्पंचदशे भाग इत्युक्तमुपपन्नम् ॥ ६८ ॥ ___ भा० टी०-भूवृत्तके पंचदश भाग दूर उत्तर अयनमें देवभागमें भौर दक्षिणायनमें मसुरभागमें सूर्य मस्तकके ऊपर होकर भ्रमण करते हैं ॥ ६८ ॥
अथ निरक्षदेशाडूपरिधिपञ्चदशभागपर्यन्तं सूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति
तदन्तरालयोश्छाया याम्योदवसम्भवत्यपि ॥
मेरोरभिमुखं याति परतः स्वविभागयोः ।। ६९ ॥ तदन्तरालयोनिरक्षदेशात्पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशांगुलशंकोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणाप्रमुत्तराग्रं वा संभवति । एतदुक्तं भवति । निरक्षदेशात्पंचदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम् । नतांशानामुत्तरत्वे छायाग्रं दक्षिणम् । एवं निरक्षदेशात्पञ्चदशभागान्तगलस्थितदक्षिणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं दक्षिणं दक्षिणस्थत्वे छायाग्रमुत्तरमिति । परतः पञ्चदशभागान्तरालदेशे स्वविभागयोदक्षिणोत्तरविभागयोमरोरभिमुखं मेर्वकयोः सम्मुखं क्रमेण दक्षिणायमुत्तराग्रं यथा स्यात्तथेत्यर्थः । छाया याति गच्छति । भवतीत्यर्थः ।आपशब्दः पूर्वार्धार्थेन समुच्चयार्थकः ॥ ६९ ॥
भाटी-इन दोनोंके मध्यस्थित स्थानमें छाया दक्षिण. या उत्तरमें स्थित होसकती इतने ऊग अपने २ भागमें छाया मेरुके सामने पतित होता है ॥ ६९ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com