Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 223
________________ (२१४) सूर्यसिद्धान्तः [ द्वादशोऽस्वल्पयातो बहून्भुक्ते भगणाञ्छीतदीधितिः ॥ महत्या कक्षया गच्छंस्ततः स्वल्पं शनैश्वरः ॥ ७७॥ स्वल्पप्रमाणया कक्षया । तुकारादतिकामंश्चंद्रो वहुप्रमाणान्भगणान्वहुवारं द्वादश. राशीनित्यर्थः । भुंक्ते. । महाप्रमाणया कक्षया गच्छञ्छनिस्ततश्चन्द्रात्स्वल्पं भगणमल्पप्रमाणान्भगणान् । जात्यभिप्रायेणैकवचनम् । अल्पवारं द्वादशराशीन्मुंक्ते । अतएव शनैश्चर इति ॥ ७७ ॥ भा० टी०-एक समयके मध्यमें स्वल्प कक्षागत चंद्रमा बहुतसे भगण भोगताहै; परन्तु शनिकी कक्षाके महत्त्ववासे भगण मल्प होते हैं ।। ७७ ।। अथ 'दिनाब्दमासहोराणामधिपा न समाः कुतः' इति प्रश्नस्योत्तरं श्लोकाभ्यामाह मंदादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः॥ वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्तिताः ॥ ७८॥ ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः॥ होरेशाः सूर्यतनयादधोऽधःक्रमतस्तथा ॥ ७९ ॥ शनेः सकाशादधः कक्षाक्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतयो वारेश्वरा भ. वन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत्क्रमः । वर्षस्य षष्टयधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्मन्दादधःक्रमेण तृतीयसंख्याका ग्रहा उक्ताः । चः समुच्चयार्थे । तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरुसूर्यवुधा इति । चन्द्रात्सकाशादूर्ध्वकक्षाक्रमेण ग्रहा मासानां त्रिंशदिनात्मकानां स्वामिनः कथिताः । तत्क्रमश्च चन्द्रवुधशुक्ररविं भौमगुरुशनय इति । शनेः सकाशादधः क्रमशः । अधः क्रमेण होरेशाः 'होरोति लग्नं भगणस्य चार्धम्' इति पञ्चदशभागात्मकहाराणां दिने द्वादशरात्रौ द्वादशेत्यहोरात्रे चतुविशतिहोराणामित्यर्थः । होरा सार्धा द्विनाडिका' इति षष्टिघटिकात्मकेऽहोरात्रे । चतुविशातिहोराणामित्यन्ये । स्वामिनस्तथा मासेश्वरखदव्यवहिताः कथिताः । यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति । अत्र शनेः सर्वोर्ध्वस्थत्वाचन्द्रस्य सर्वाधः स्थत्वात्ताभ्यामध ऊर्यक्रमः ऋमेणोक्तः।अन्यग्रहस्यावधित्वाभ्युपगमे विनिगमनाविरहा. पत्तेः । नतु शनेराद्यावधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्टयादौ मासेशत्वं पूर्वखण्डोक्तानीततदीशैविरोधापत्तेः । अत्रोपपत्तिः । होरारूपलग्नानां क्रान्तिवृत्तेऽधःक्रमेण मेषादीनां सम्भवादू कक्षातोऽधःक्रमेण होरेशत्वं युक्तम् । एवमहोरात्रे चतुर्विंशतिहोराः । सप्ततष्टास्त्रयोहोरेशा गताः । चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथमहोरेशत्वाद्भद्वितीयदिनेशः । एवमुत्तरत्रापि । एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा इति पूर्ववर्षशादग्रिमवर्षशोऽधः कक्षाक्रमेण तृतीय उत्तरो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262