Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 220
________________ ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (२११) अथ कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्योत्तरं श्लोकाभ्यामाह भद्राश्वोपरिगः कुर्याद्रारते तूदयं रविः॥ राज्यध केतुमाले तु कुरावस्तमयं तदा ॥ ७० ॥ भारतादिषु वर्षेषु तदेव परिभ्रमन् ॥ मध्योदयाराव्यस्तकालात्कुर्यात्प्रदक्षिणम् ॥ ७१॥ भद्राश्ववर्षोपरिगतः सूर्यो भरतवर्षे स्वोदयं कुर्यात् । तुकारात् भद्राश्चवर्षे मध्याहू कुर्यात् । तदा तस्मिन्काले केतुमालवर्षेऽर्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात् । तुकारादुक्तवर्षयोरन्तरले दिनस्य गतं शेषं वा गत्रेश्च तद्यथायोग्यं कुर्यादित्यर्थः । अतिस्थूलदेशग्रहणे यथाश्रुतमिदं भव्यं किश्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्ध रराण्यन्तर्गतानि तच्छन्दवाच्यानि ज्ञेयानि । “लङ्कापुरेऽस्य यदोदयः स्यात्तदा दिनार्धे यमकोटिपुर्याम् । अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिपलं तदेव ॥" इतिभास्कराचार्योक्तभूगोल उक्तंनगराणां भूपरिधिचतुर्थीशान्तरत्वात्संगच्छते । अथ भारतादिषु त्रिषु वर्षसज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्भद्राश्चवर्षोपरिगवत् । एक्कारातन्यूनाधिकव्यवच्छेदः। परिभ्रमन्परिभ्रमण स्वस्वाभिमतस्थानोपरि स्थिति कुर्वन् सूर्यः प्रदक्षिणं यथा स्यात्तथा सव्यक्रमेण स्वस्थानादिक्रमेणेति यावत् । उक्तचतुर्वर्षेषु मध्योदयार्धराज्यस्तकालान्मध्याह्नोदयार्धराज्यस्तसज्ञान्कालान्कुर्यात । एतदुक्तं भवति । भारतवर्षोपरिगतेऽर्के भारतकेतुमालकुरुभद्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः । केतुमालवर्षोपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषु क्रमेण मध्याह्नसूर्योदयात्ररात्रास्ताः । कुरुवर्षोपरि गतेऽर्के कुरुभद्राश्वभारतकेतुमालवर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ता भवन्तीति ॥ ७० ॥७१॥ भा०टी०-जिस समय भद्राश्वमें मस्तकपर सूर्य होता है, तब भारतमें लंकोदयगत होता है, केतुमालमें राम्यई (आधीरात) और कुरुवर्षमें मस्त प्रायः होता है । भारतादिवर्षमें वैसेही सूर्य भ्रमणके द्वारा मध्य, उदय, आधीरात, मस्तकाल आदिकरके प्रदक्षिण करते ॥ ७० ॥ ७१ ॥ ननु ग्रहाणां गतिसद्भावात्प्रतिदेशं याम्योत्तरयोग्र्हगमनं प्रतिक्षणं च विलक्षणं भासताम् । परंतु नक्षत्राणां गत्यभावात्प्रतिक्षणभ्रमेणैकवावस्थानाभावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न । एवं ध्रुवयोः परिभ्रमस्याप्यभावात्सदा सर्वत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह ध्रुवोन्नतिर्भचकस्य नतिमरुं प्रयास्यतः ॥ निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ।। ७२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262